Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 24

48 Mantra
25/24
Devata- मित्रादयो देवताः Rishi- गोतम ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मा नो॑ मि॒त्रो वरु॑णोऽअर्य॒मायुरिन्द्र॑ऽऋभु॒क्षा म॒रुतः॒ परि॑ख्यन्।यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्याणि॥२४॥

मा। नः॒। मि॒त्रः। वरु॑णः। अ॒र्य॒मा। आ॒युः। इन्द्रः॑। ऋ॒भु॒क्षाः। म॒रुतः॑। परि॑ऽख्यन्। यत्। वा॒जिनः॑। दे॒वजा॑त॒स्येति॑ दे॒वऽजा॑तस्य। सप्तेः॑। प्र॒व॒क्ष्याम॒ इति॑ प्रऽव॒क्ष्यामः॑। वि॒दथे॑। वी॒र्या᳖णि ॥२४ ॥

Mantra without Swara
मा नो मित्रो वरुणोऽअर्यमायुरिन्द्रऽऋभुक्षा मरुतः परिख्यन् । यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥

मा। नः। मित्रः। वरुणः। अर्यमा। आयुः। इन्द्रः। ऋभुक्षाः। मरुतः। परिऽख्यन्। यत्। वाजिनः। देवजातस्येति देवऽजातस्य। सप्तेः। प्रवक्ष्याम इति प्रऽवक्ष्यामः। विदथे। वीर्याणि॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधे (नः) अस्माकम् (मित्रः) प्राण इव सखा (वरुणः) उदान इव श्रेष्ठः (अर्यमा) न्यायाधीश इव नियन्ता (आयुः) जीवनम् (इन्द्रः) राजा (ऋभुक्षाः) महान्तः (मरुतः) मनुष्याः (परिख्यन्) वर्जयेयुः (यत्) यानि (वाजिनः) वेगवतः (देवजातस्य) देवैर्दिव्यैर्गुणैः प्रसिद्धस्य (सप्तेः) अश्वस्य (प्रवक्ष्यामः) प्रवदिष्यामः (विदथे) युद्धे (वीर्याणि) बलानि ॥ २४ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः । यथा सर्वे मनुष्या: स्वेषां बलानि वर्द्धयितुमिच्छेयुस्तथैवान्येषामपि वर्द्धयितुमिच्छन्तु ॥२५ ।२४ ॥
Subject
पुनः केऽस्माकं किन्न कुर्युरित्याह ॥
Meaning of Anvay
हे विद्वांसो यथा मित्रो वरुणोऽर्यमेन्द्रश्च ऋभुक्षा मरुतो न आयुर्मा परिख्यन् । येन वयं देवजातस्य वाजिनः सप्तेरिव विदथे यद्वीर्याणि प्रवक्ष्यामस्तानि मा परिख्यन् । तथा यूयमुपदिशत ॥ २४ ॥
सपदार्थान्वयः--हे विद्वांसः ! यथामित्र: प्राण इव सखा, वरुणः उदान इव श्रेष्ठ: अर्यमा न्यायाधीश इव नियन्ता इन्द्रः राजा च, ऋभुक्षाः महान्तः मरुतः मनुष्याः नः अस्माकम् आयुः जीवनं मान परिख्यन् वर्जयेयुः; येन वयं देवजातस्य देवैर्दिव्यैर्गुणैः प्रसिद्धस्य वाजिनः वेगवतः सप्तेः अश्वस्य इव विदथे युद्धे, यत् यानि वीर्याणि बलानि प्रवक्ष्यामः प्रवदिष्यामः, तानि मा न परिख्यन् वर्जयेयुः; तथा यूयमुपदिशत॥ २५ । २४ ॥
Special
गोतमः । मित्रादयः=प्राण इव सख्यादयः। त्रिष्टुप् | धैवतः ॥