Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 22

48 Mantra
25/22
Devata- विद्वांसो देवता Rishi- गोतम ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
श॒तमिन्नु श॒रदो॒ऽअन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म्।पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑॥२२॥

श॒तम्। इत्। नु। श॒रदः॑। अन्ति॑। दे॒वाः॒। यत्र॑। नः॒। च॒क्र। ज॒रस॑म्। त॒नूना॑म्। पु॒त्रासः॑। यत्र॑। पि॒तरः॑। भव॑न्ति। मा। नः॒। म॒ध्या। री॒रि॒ष॒त॒। रि॒रि॒ष॒तेति॑ रिरिषत। आयुः॑। गन्तोः॑ ॥२२ ॥

Mantra without Swara
शतमिन्नु शरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

शतम्। इत्। नु। शरदः। अन्ति। देवाः। यत्र। नः। चक्र। जरसम्। तनूनाम्। पुत्रासः। यत्र। पितरः। भवन्ति। मा। नः। मध्या। रीरिषत। रिरिषतेति रिरिषत। आयुः। गन्तोः॥२२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शतम्) शतवार्षिकम् (इत्) एव (नु) सद्यः (शरदः) शरदृत्वन्तानि (अन्ति) अन्तिके (देवाः) विद्वांसः (यत्र) यस्मिन् । अत्र निपातस्य चेति दीर्घः । (नः) अस्माकम् (चक्र) कुर्वन्तु । अत्र द्यचोऽतस्तिङ इति दीर्घः । (जरसम्) जराः (तनूनाम्) शरीराणाम् (पुत्रासः) वृद्धावस्थाजन्यदुःखात्त्रातारः (यत्र) (पितरः) पितर इव वर्त्तमानाः (भवन्ति) (मा) (नः) अस्माकम् (मध्या) पूर्णायुषो भोगस्य मध्ये (रीरिषत) घ्नत (आयुः) जीवनम् (गन्तोः) गमनम् ॥ २२ ॥
Essence
मनुष्यैर्दीर्घमष्टचत्वारिंशद्वर्षपरिमितं ब्रह्मचर्यं सदा सेवनीयम् । यदा शतवार्षिकमायुर्व्यतीयात्तदैव शरीराणां जराऽवस्था भवेत् । येन पितृषु विद्यमानेषु पुत्रा अपि पितरो भवेयुः। यदि ब्रह्मचर्येण सह न्यूनान्न्यूनानि पञ्चविंशतिवर्षाणि व्यतीतानि स्युस्ततः पश्चादतिमैथुनेन ये वीर्यक्षयं कुर्वन्ति तर्हि ते सरोगा निर्बुद्धयो भूत्वा दीर्घायुषः कदापि न भवन्ति ॥ २५ । २२ ॥
Subject
पुनरस्मदर्थं किं कुर्युरित्याह ॥
Meaning of Anvay
हे देवाभवदन्ति स्थितानां नोऽस्माकं यत्र यस्मिन् तनूनां जरसंशतंशरदःस्युस्तन्नुचक्र ।यत्र पुत्रासइत्पितर: भवन्ति, तन्नःगन्तोरायुर्मध्यामा रीरिषत॥ २२ ॥
सपदार्थान्वयः--हे देवाः विद्वांसः ! भवदन्ति अन्तिके स्थितानांनः अस्माकं यत्र यस्मिन् तनूनां शरीराणां जरसं जराः शतं शतवार्षिकं शरदः शरदृत्वन्तानि स्युस्तन्नु सद्यः चक्र कुर्वन्तु । यत्र यस्मिन् पुत्रासः वृद्धावस्थाजन्यदुःखात् त्रातारः इत् एव पितरः पितर इव वर्त्तमाना: भवन्ति, तन्नः अस्माकं गन्तोः गमनम् आयुः जीवनं मध्या पूर्णायुषो भोगस्य मध्ये मा रीरिषत घ्नत ॥ २५ । २२ ॥
Special
गोतमः । विद्वांसः=स्पष्टम् । त्रिष्टुप् । धैवतः ॥