Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 2

48 Mantra
25/2
Devata- प्राणादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगतिसक्वर्यौ Swara- पञ्चमः
Mantra with Swara
वातं॑ प्रा॒णेना॑पा॒नेन॒ नासि॑केऽउपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण प्रका॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्यं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्यां॒ कर्णा॑भ्या॒ श्रोत्र॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिꣳ शी॒र्ष्णा निर्ऋ॑तिं॒ निर्ज॑र्जल्पेन शी॒र्ष्णा सं॑क्रो॒शैः प्रा॒णान् रे॒ष्माण॑ स्तु॒पेन॑॥२॥

वात॑म्। प्रा॒णेन॑। अ॒पा॒नेनेत्य॑पऽआ॒नेन॑। नासि॑के॒ इति॒ नासि॑के। उ॒प॒या॒ममित्यु॑प॒ऽया॒मम्। अध॑रेण। ओष्ठे॑न। सत्। उत्त॑रे॒णेत्युत्ऽत॑रेण। प्र॒का॒शेनेति॑ प्रऽका॒शेन॑। अन्त॑रम्। अ॒नू॒का॒शेन॑। अ॒नु॒का॒शेनेत्य॑नुऽका॒शेन॑। बाह्य॑म्। नि॒वे॒ष्यमिति॑ निऽवे॒ष्यम्। मू॒र्ध्ना। स्त॒न॒यि॒त्नुम्। नि॒र्बा॒धेने॒ति॑ निःऽबा॒धेन॑। अ॒शनि॑म्। म॒स्तिष्के॑ण। वि॒द्युत॒मिति॑ वि॒ऽद्युत॑म्। क॒नीन॑काभ्याम्। कर्णा॑भ्याम्। श्रोत्र॑म्। श्रोत्रा॑भ्याम्। कर्णौ॑। ते॒द॒नीम्। अ॒ध॒र॒क॒ण्ठेनेत्य॑धरऽक॒ण्ठेन॑। अ॒पः। शु॒ष्क॒क॒ण्ठेनेति॑ शुष्कऽक॒ण्ठेन॑। चि॒त्तम्। मन्या॑भिः ॥ अदि॑तिम्। शी॒र्ष्णा। निर्ऋ॑ति॒मिति॒ निःऽऋ॑तिम्। निर्ज॑र्जल्पे॒नेति॒ निःऽज॑र्जल्पेन। शी॒र्ष्णा। स॒ङ्क्रो॒शैरिति॑ सम्ऽक्रो॒शैः। प्रा॒णान्। रे॒ष्माण॑म्। स्तु॒पेन॑ ॥२ ॥

Mantra without Swara
वातम्प्राणेनापानेन नसिकेऽउपयाममधरेणौष्ठेन सदुत्तरेण प्रकाशेनान्तरमनूकाशेन बाह्व्यन्निवेष्यम्मूर्ध्ना स्तनयित्नुन्निर्बाधेनाशनिम्मस्तिष्केण विद्युतङ्कनीनकाभ्याङ्कर्णाभ्याँ श्रोत्रँ श्रोत्राभ्याङ्कर्णा तेदनीमधरकण्ठेनापः शुष्ककण्ठेन चित्तम्मन्याभिरदितिँ शीर्ष्णानिरृतिन्निर्जर्जल्पेन शीर्ष्णा सङ्क्रोशैः प्राणान्रेष्माणँ स्तुपेन् ॥

वातम्। प्राणेन। अपानेनेत्यपऽआनेन। नासिके इति नासिके। उपयाममित्युपऽयामम्। अधरेण। ओष्ठेन। सत्। उत्तरेणेत्युत्ऽतरेण। प्रकाशेनेति प्रऽकाशेन। अन्तरम्। अनूकाशेन। अनुकाशेनेत्यनुऽकाशेन। बाह्यम्। निवेष्यमिति निऽवेष्यम्। मूर्ध्ना। स्तनयित्नुम्। निर्बाधेनेति निःऽबाधेन। अशनिम्। मस्तिष्केण। विद्युतमिति विऽद्युतम्। कनीनकाभ्याम्। कर्णाभ्याम्। श्रोत्रम्। श्रोत्राभ्याम्। कर्णौ। तेदनीम्। अधरकण्ठेनेत्यधरऽकण्ठेन। अपः। शुष्ककण्ठेनेति शुष्कऽकण्ठेन। चित्तम्। मन्याभिः॥ अदितिम्। शीर्ष्णा। निर्ऋतिमिति निःऽऋतिम्। निर्जर्जल्पेनेति निःऽजर्जल्पेन। शीर्ष्णा। सङ्क्रोशैरिति सम्ऽक्रोशैः। प्राणान्। रेष्माणम्। स्तुपेन॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वातम्) वायुम् (प्राणेन) (अपानेन) (नासिके) नासिकाछिद्रे (उपयामम्) उपगतं नियमम् (अधरेण) मुखादधस्थेन (ओष्ठेन) (सत्) (उत्तरेण) उपरिस्थेन (प्रकाशेन) (अन्तरम्) मध्यस्थमाभ्यन्तरम् (अनूकाशेन) अनुप्रकाशेन (बाह्यम्) बहिर्भवम् (निवेष्यम्) निश्चयेन व्याप्तुं योग्यम् (मूर्ध्ना) मस्तकेन (स्तनयित्नुम् ) शब्दनिमित्तां विद्युतम् (निर्बाधेन) नितरां बाधेन हेतुना (अशनिम्) व्यापिकां घोषयुक्ताम् (मस्तिष्केण) शिरस्थमज्जातन्तुसमूहेन (विद्युतम्) विशेषेण द्योतमानाम् (कनीनकाभ्याम्) प्रदीप्ताभ्यां=कमनीयाभ्याम् (कर्णाभ्याम्) श्रवणसाधकाभ्याम् (श्रोत्रम्) शृणोति येन तत् (श्रोत्राभ्याम्) शृणोति याभ्यां गोलकाभ्यां ताभ्यां (कर्णौ) करोति श्रवणं याभ्यां तौ (तेदनीम्) श्रवणक्रियाम् (अधरकण्ठेन) अधस्थेन कण्ठेन (अपः) जलानि (शुष्ककण्ठेन) (चित्तम्) विज्ञानसाधिकामन्तःकरणवृत्तिम् (मन्याभिः) विज्ञानक्रियाभिः (अदितिम्) अविनाशिकां प्रज्ञाम् (शीर्ष्णा) शिरसा (निर्ऋतिम्) भूमिम् (निर्जर्जल्पेन) नितरां जर्जरीभूतेन (शीर्ष्णा) शिरसा (सङ्क्रोशैः) सम्यगाह्वानैः (प्राणान्) (रेष्माणम्) हिंसकम् (स्तुपेन) हिंसनेन ॥ २ ॥
Essence
सर्वैर्मनुष्यैः प्रथमवयसि सर्वैः शरीरादिभिः साधनैः शरीरात्मबले संसाधनीये। अविद्याकुशिक्षाकुशीलादयो रोगाः सर्वथा हन्तव्याः ॥ २५ । २ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
जिज्ञासो मदुपदेशग्रहणेन त्वं प्राणेनापानेन वातं नासिके उपयाममधरेणौष्ठेनोत्तरेण प्रकाशेन सदन्तरमनुकाशेन बाह्यं मूर्ध्ना निवेष्यं निर्बाधेन सह स्तनयित्नुमशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्यां कर्णौश्रोत्राभ्यां च श्रोत्रं तेदनीमधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिरदितिं शीर्ष्णा निर्ॠतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशै: प्राणान् प्राप्नुहि स्तुपेन हिंसनेन रेष्माणमविद्यादिरोगं हिन्धि ॥२॥
सपदार्थान्वयः-- हे जिज्ञासो ! मदुपदेशग्रहणेन त्वं प्राणेनापानेन वातं वायुं नासिके नासिकाछिद्रे उपयामम् उपगतं नियमम्, अधरेण मुखादधस्थेन ओष्ठेनोत्तरेण उपरिस्थेन प्रकाशेनसदन्तरं मध्यस्थमाभ्यन्तरम्, अनूकाशेन अनुप्रकाशेन बाह्यं बहिर्भवं, मूर्ध्ना मस्तकेन निवेष्यं निश्चयेन व्याप्तुं योग्यं, निर्बाधेन नितरां बाधेन हेतुना सह स्तनयित्नुं शब्दनिमित्तां विद्युतम्, अशनिं व्यापिकां घोषयुक्तां, मस्तिष्केण शिरस्थमज्जातन्तुसमूहेन विद्युतं विशेषेण द्योतमानां, कनीनकाभ्यां प्रदीप्ताभ्यां, कमनीयाभ्यां कर्णाभ्यां श्रवणसाधकाभ्यां कर्णौ करोति श्रवणं याभ्यां तौ, श्रोत्राभ्यां शृणोति याभ्यां गोलकाभ्यां ताभ्यां च श्रोत्रं शृणोति येन तत् तेदनीं श्रवणक्रियाम्, अधरकण्ठेनअधरस्थेन कण्ठेन अपः जलानि, शुष्ककण्ठेन चित्तं विज्ञानसाधिकामन्तःकरणवृत्तिं, मन्याभिः विज्ञानक्रियाभिः अदितिम् अविनाशिकां प्रज्ञां, शीर्ष्णा शिरसा निर्ॠतिं भूमिं, निर्जर्जल्पेन नितरां जर्जरीभूतेन शीर्ष्णा शिरसा सङ्क्रोशैः सम्यगाह्वानैः, प्राणान् प्राप्नुहि; स्तुपेन=हिंसनेन रेष्माणं=अविद्यादिरोगं हिंसकं हिन्धि॥२५ । २ ॥
Meaning of Essence
रेष्माणम्=अविद्याकुशिक्षाकुशीलादिरोगम्॥
Special
प्रजापतिः। प्राणादयः=स्पष्टम् । भुरगतिशक्वर्यौ । धैवतः ॥