Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 18

48 Mantra
25/18
Devata- ईश्वरो देवता Rishi- गोतम ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम्।पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑॥१८॥

तम्। ईशा॑नम्। जग॑तः। त॒स्थुषः॑। पति॑म्। धि॒यं॒जि॒न्वमिति॑ धियम्ऽजि॒न्वम्। अव॑से। हू॒म॒हे॒। व॒यम्। पू॒षा। नः॒। यथा॑। वेद॑साम्। अस॑त्। वृ॒धे। र॒क्षि॒ता॒। पा॒युः। अद॑ब्धः। स्व॒स्तये॑ ॥१८ ॥

Mantra without Swara
तमीशानञ्जगतस्तस्थुषस्पतिञ्धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

तम्। ईशानम्। जगतः। तस्थुषः। पतिम्। धियंजिन्वमिति धियम्ऽजिन्वम्। अवसे। हूमहे। वयम्। पूषा। नः। यथा। वेदसाम्। असत्। वृधे। रक्षिता। पायुः। अदब्धः। स्वस्तये॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तम्) (ईशानम्) ईशनशीलम् (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (पतिम्) पालकम् (धियञ्जिन्वम्) यो धियं=प्रज्ञां जिन्वति=प्रीणाति तम् (अवसे) रक्षणाद्याय (हूमहे) स्तुम: (वयम्) (पूषा) पुष्टिकर्ता (नः) अस्माकम् (यथा) (वेदसाम्) धनानाम् (असत्) भवेत् (वृधे) वृद्धये (रक्षिता) रक्षणकर्त्ता (पायुः) सर्वस्य रक्षकः (अदब्धः) अहिंसकः (स्वस्तये) सुखाय ॥ १८ ॥
Essence
सर्वे विद्वांसः सर्वान् प्रत्येवमुपदिशेयुः यस्य सर्वशक्तिमतो निराकारस्य सर्वत्र व्यापकस्य परमेश्वरस्योपासनं वयं कुर्मस्तमेव, सुखैश्वर्यवर्द्धकं जानीमस्तस्यैवोपासनं यूयमपि कुरुत, तमेव सर्वोन्नतिकरं च विजानीत ॥२५ । १८॥
Subject
पुनरीश्वरः कीदृशः किमर्थमुपासनीय इत्याह॥
Meaning of Anvay
हे मनुष्या वयमवसे जगतस्तस्थुषस्पतिं धियंजिन्वं तमीशानं हूमहे स यथा नो वेदसां वृधे पूषा रक्षिता स्वस्तये पायुरदब्धोऽसत्तथा यूयं कुरुत स च युष्मभ्यमप्यस्तु ॥ १८ ॥
सपदार्थान्वयः- हे मनुष्याः ! वयम् अवसे रक्षणाद्याय जगतः जङ्गमस्य तस्थुषः स्थावरस्य पतिं पालकं, धियञ्जिन्वं यो धियं=प्रज्ञां जिन्वति=प्रीणाति तं, तमीशानम् ईशनशीलं हूमहेस्तुमः । स यथा नः अस्माकं वेदसां धनानां वृधे वृद्धये पूषा पुष्टिकर्त्ता, रक्षिता रक्षणकर्त्ता स्वस्तये सुखाय पायुः सर्वस्य रक्षकः, अदब्धः अहिंसकः असत् भवेत्; तथा यूयं कुरुत; स च युष्मभ्यमप्यस्तु॥ २५ । १८ ॥
Special
गोतम: । ईश्वरः=स्पष्टम् । भुरिक् त्रिष्टुप् । धैवतः ॥