Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 15

48 Mantra
25/15
Devata- विद्वांसो देवता Rishi- प्रजापतिर्ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वाना॑ रा॒तिर॒भि नो॒ निव॑र्त्तताम्।दे॒वाना॑ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ऽआयुः॒ प्रति॑रन्तु जी॒वसे॑॥१५॥

दे॒वाना॑म्। भ॒द्रा। सु॒म॒तिरिति॑ सुऽम॒तिः। ऋ॒जूय॒ताम्। ऋ॒जु॒य॒तामित्यृ॑जुऽय॒ताम्। दे॒वाना॑म्। रा॒तिः। अ॒भि। नः॒। नि। व॒र्त्त॒ता॒म्। दे॒वाना॑म्। स॒ख्यम्। उप॑। से॒दि॒म॒। आ। व॒यम्। दे॒वाः। नः॒। आयुः॑। प्र। ति॒र॒न्तु॒। जी॒वसे॑ ॥१५ ॥

Mantra without Swara
देवानाम्भद्रा सुमतिरृजूयतान्देवानाँ रातिरभि नो नि वर्तताम् । देवानाँ सख्यमुपसेदिमा वयन्देवा नऽआयुः प्रतिरन्तु जीवसे ॥

देवानाम्। भद्रा। सुमतिरिति सुऽमतिः। ऋजूयताम्। ऋजुयतामित्यृजुऽयताम्। देवानाम्। रातिः। अभि। नः। नि। वर्त्तताम्। देवानाम्। सख्यम्। उप। सेदिम। आ। वयम्। देवाः। नः। आयुः। प्र। तिरन्तु। जीवसे॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवानाम्) विदुषाम् (भद्रा) कल्याणकरी (सुमतिः) शोभना प्रज्ञा (ऋजूयताम्) सरलीकुर्वताम् (देवानाम्) दातॄणाम् (राति:) विद्यादिदानम् (अभि) सर्वत: (न:) अस्मान् (नि) (वर्त्तताम्) (देवानाम्) विदुषाम् (सख्यम्) मित्रत्वम् (उप) (सेदिम) प्राप्नुयाम (आ) (वयम्) (देवाः) विद्वांसः (न:) अस्माकम् (आयु:) प्राणधारणम् (प्र) (तिरन्तु) पूर्णं भोजयन्तु (जीवसे) जीवितुम् ॥ १५॥
Essence
सर्वैर्मनुष्यैराप्तानांसकाशात् प्रज्ञाः प्राप्य, ब्रह्मचर्येणायुः संवर्ध्य सदैव धार्मिकै: सह मित्रता रक्षणीया ॥ २५ । १५ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे मनुष्या यथा देवानां भद्रा सुमतिरस्मानृजूयतां देवानां रातिर्नोऽस्मानभिनिवर्त्ततां वयं देवानां सख्यमुपसेदिम देवा नो जीवस आयुः प्रतिरन्तु तथा युष्मान्प्रतिवर्त्तन्ताम् ॥ १५ ॥
सपदार्थान्वयः-हे मनुष्याः ! यथादेवानां विदुषां भद्रा कल्याणकरी सुमतिः शोभना प्रज्ञा अस्मानृजूयतां सरलीकुर्वताम्, देवानां दातॄणां रातिः विद्यादिदानं नः अस्मान् अभि+निवर्त्ततां सर्वतः [निवर्त्तताम्], वयं देवानां विदुषां सख्यं मित्रत्वम् उप+आ+सेदिम प्राप्नुयाम, देवाःविद्वांसः नः अस्माकं जीवसे जीवितुम् आयु:=प्राणधारणं प्रतिरन्तु पूर्णं भोजयन्तु; तथा युष्मान्प्रतिवर्त्तन्ताम्॥ २५ । १५ ॥
Special
प्रजापतिः । विद्वांसः=स्पष्टम् । जगती । निषादः ॥