Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 14

48 Mantra
25/14
Devata- यज्ञो देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृतज्जगती Swara- निषादः
Mantra with Swara
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ऽअप॑रीतासऽउ॒द्भिदः॑।दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धेऽअस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे॥१४॥

आ। नः॒। भ॒द्राः। क्रत॑वः। य॒न्तु॒। वि॒श्वतः॑। अद॑ब्धासः। अप॑रीतास॒ इत्यप॑रिऽइतासः। उ॒द्भिद॒ इत्यु॒त्ऽभिदः॑। दे॒वाः। नः॒। यथा॑। सद॑म्। इत्। वृ॒धे। अस॑न्। अप्रा॑युव॒ इत्यप्र॑ऽआयुवः। र॒क्षि॒तारः॑। दि॒वेदि॑व॒ऽइति॑ दि॒वेदि॑वे ॥१४ ॥

Mantra without Swara
आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतासऽउद्भिदः । देवा नो यथा सदमिद्वृधेऽअसन्नप्रायुवो रक्षितारो दिवेदिवे ॥

आ। नः। भद्राः। क्रतवः। यन्तु। विश्वतः। अदब्धासः। अपरीतास इत्यपरिऽइतासः। उद्भिद इत्युत्ऽभिदः। देवाः। नः। यथा। सदम्। इत्। वृधे। असन्। अप्रायुव इत्यप्रऽआयुवः। रक्षितारः। दिवेदिवऽइति दिवेदिवे॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
आ) (नः) अस्मान् (भद्राः) कल्याणकराः (क्रतवः) यज्ञाः प्रज्ञा वा (यन्तु) प्राप्नुवन्तु (विश्वतः) सर्वतः (अदब्धासः) अहिंसिताः (अपरीतासः) अन्यैरव्याप्ताः (उद्भिदः) य उद्भिन्दन्ति (देवाः) पृथिव्यादय इव विद्वांसः (नः) अस्माकम् (यथा) (सदम्) सीदन्ति=प्राप्नुवन्ति यस्यां ताम् (इत्) एव (वृधे) वृद्धये (असन्) भवन्तु (अप्रायुवः) अनष्टायुष: (रक्षितारः) रक्षका (दिवेदिवे) प्रतिदिनम्॥१४॥
Essence
सर्वैर्मनुष्यैः परमेश्वरस्य विज्ञानाद् विदुषां सङ्गेन पुष्कलाः प्रज्ञाः प्राप्य सर्वतो धर्ममाचर्य सर्वेषां रक्षकैर्भवितव्यम् ॥ २५ । १४ ॥
Subject
पुनर्मनुष्यैः किमेष्टव्यमित्याह॥
Meaning of Anvay
विद्वांसो यथा नोऽस्मान् विश्वतो भद्रा अदब्धासोऽपरीतास उद्भिदः क्रतव आ यन्तु यथा नः सदं प्राप्ता अप्रायुवो देवा इद्दिवेदिवे वृधे रक्षितारोऽसन् तथाऽनुतिष्ठन्तु ॥ १४ ॥
सपदार्थान्वयः-- हे विद्वांसः ! यथा नः=अस्मान् विश्वतः सर्वतः भद्राः कल्याणकराः, अदब्धासः अहिंसिताः, अपरीतासः अन्यैरव्याप्ताः, उद्भिदः य उद्भिन्दन्ति, क्रतवः यज्ञाः प्रज्ञा वा आ+यन्तु प्राप्नुवन्तु, यथा नः अस्माकं सदं सीदन्ति=प्राप्नुवन्ति यस्यां तां प्राप्ता अप्रायुव अनष्टायुषः, देवाः पृथिव्यादय इव विद्वांसः, इत् एव, दिवेदिवे प्रतिदिनं वृधे वृद्धये रक्षितार: रक्षका, असन् भवन्तु; तथानुतिष्ठन्तु॥ २५ । १४ ॥
Meaning of Essence
क्रतवः=पुष्कलाः प्रज्ञाः । रक्षितारः=सर्वेषां रक्षकाः॥
Special
प्रजापतिः । यज्ञः=यज्ञः प्रजा वा । निचृज्जगती । निषादः ॥