Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 13

48 Mantra
25/13
Devata- परमात्मा देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यऽआ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ऽउ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥१३॥

यः। आ॒त्म॒दा। इत्या॑त्म॒ऽदाः। ब॒ल॒दा इति॑ बल॒ऽदाः। यस्य॑। विश्वे॑। उ॒पास॑त॒ इत्यु॑प॒ऽआस॑ते। प्र॒शिष॒मिति॑ प्र॒ऽशिष॑म्। यस्य॑। दे॒वाः। यस्य॑। छा॒या। अ॒मृत॑म्। यस्य॑। मृ॒त्युः। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥१३ ॥

Mantra without Swara
यऽआत्मदा बलदा यस्य विश्व उपासते प्रशिषँयस्य देवाः । यस्य छायामृतँयस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

यः। आत्मदा। इत्यात्मऽदाः। बलदा इति बलऽदाः। यस्य। विश्वे। उपासत इत्युपऽआसते। प्रशिषमिति प्रऽशिषम्। यस्य। देवाः। यस्य। छाया। अमृतम्। यस्य। मृत्युः। कस्मै। देवाय। हविषा। विधेम॥१३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यः) (आत्मदा) य आत्मानं ददाति सः (बलदाः) यो बलं ददाति सः (यस्य) (विश्वे) (उपासते) (प्रशिषम्) प्रशासनम् (यस्य) (देवा:) विद्वांसः (यस्य) (छाया) आश्रयः (अमृतम्) (यस्य) (मृत्युः) (कस्मै) (देवाय) (हविषा) (विधेम) ॥ १३ ॥
Essence
हे मनुष्याः ! यस्य जगदीश्वरस्य प्रशासने कृतायां मर्यादायां सूर्यादयो लोका नियमेन वर्त्तन्ते, येन सूर्येण विना वर्षा आयुःक्षयश्च न जायते, स येन निर्मितस्तस्यैवोपासनां सर्वे मिलित्वा कुर्वन्तु ॥ २५ । १३ ॥
Subject
पुनरुपासित ईश्वरः किं ददातीत्याह॥
Meaning of Anvay
हे मनुष्या य आत्मदा बलदा यस्य प्रशिषं विश्वे देवा उपासते यस्य सकाशात्सर्वे व्यवहारा जायन्ते यस्य च्छायाऽमृतं यस्याज्ञाभङ्गो मृत्युस्तस्मै कस्मै देवाय वयं हविषा विधेम ॥ १३ ॥
सपदार्थान्वयः--हे मनुष्याः ! य आत्मदाः य आत्मानं ददाति सः, बलदाः यो बलं ददाति सः, यस्य प्रशिषं प्रशासनं विश्वे देवा: विद्वांसः उपासते; यस्य सकाशात्सर्वे व्यवहारा जायन्ते, यस्य च्छाया आश्रयः अमृतं, यस्याज्ञाभङ्गो मृत्युस्तस्मै कस्मै देवाय वयं हविषा विधेम॥ २५|१३॥
Meaning of Essence
देवाः=सूर्यादयो लोकाः। प्रशिषम्=कृतां मर्यादाम् । उपासते=नियमेन वर्त्तन्ते । अमृतम्=वर्षा । मृत्युः=आयुःक्षयः ।
Special
प्रजापतिः । परमात्मा=स्पष्टम् । निचृत्त्रिष्टुप् | धैवतः ॥