Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 25 / Mantra 12

48 Mantra
25/12
Devata- ईश्वरो देवता Rishi- प्रजापतिर्ऋषिः Chhand- स्वराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒हाहुः।यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥॥१२॥

यस्य॑। इ॒मे। हि॒मव॑न्त॒ इति॑ हि॒मऽव॑न्तः। म॒हि॒त्वेति॑ महि॒ऽत्वा। यस्य॑। स॒मु॒द्रम्। र॒सया॑। सह। आ॒हुः। यस्य॑। इ॒माः। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। यस्य॑। बा॒हू इति॑ बा॒हू। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥१२ ॥

Mantra without Swara
यस्येमे हिमवन्तो महित्वा यस्य समुद्रँ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

यस्य। इमे। हिमवन्त इति हिमऽवन्तः। महित्वेति महिऽत्वा। यस्य। समुद्रम्। रसया। सह। आहुः। यस्य। इमाः। प्रदिश इति, प्रऽदिशः। यस्य। बाहू इति बाहू। कस्मै। देवाय। हविषा। विधेम॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यस्य) (इमे) (हिमवन्तः) हिमालयादयः पर्वताः (महित्वा) महत्त्वेन (यस्य) (समुद्रम्) अन्तरिक्षम् (रसया) स्नेहनेन (सह) (आहुः) कथयन्ति (यस्य) (इमाः) (प्रदिशः) दिशो विदिशश्च (यस्य) (बाहू) भुजवद्वर्त्तमाना: (कस्मै) सुखरूपाय (देवाय) कमनीयाय (हविषा) हवनयोग्येन पदार्थेन (विधेम) परिचरेम ॥ १२ ॥
Essence
हे मनुष्याः ! य: सर्वेभ्यो महान् सर्वप्रकाशकः, सर्वेभ्यो रसस्य हर्त्ता; यस्य प्रतापेन दिशामुपदिशां च विभागो भवति, स सवितृलोको युक्त्या सेवनीयः ॥ २५ । १२ ॥
Subject
पुनः सूर्यवर्णनविषयमाह ॥
Meaning of Anvay
हे मनुष्या यस्य सूर्यस्य महित्वा महत्त्वेनेमे हिमवन्त आकर्षिताः सन्ति यस्य रसया सह समुद्रमाहुर्यस्येमा दिशो यस्य प्रदिशश्च बाहू इवाहुस्तस्मै कस्मै देवाय हविषा वयं विधेम, एवं यूयमपि विधत्त ॥ १२ ॥
सपदार्थान्वयः--हे मनुष्याः! यस्य सूर्यस्य महित्वा=महत्त्वेनेमे हिमवन्तः हिमालयादयः पर्वता: आकर्षिताः सन्ति; यस्य रसया स्नेहनेन सहसमुद्रम् अन्तरिक्षम् आहुः कथयन्ति, यस्येमा दिशो, यस्य प्रदिशः दिशो विदिशश्च च बाहू भुजवद्वर्तमान: इवाहुः कथयन्ति; तस्मै कस्मै सुखरूपाय देवाय कमनीयाय हविषा हवनयोग्येन पदार्थेन वयं विधेम परिचरेम; एवं यूयमपि विधत्त ॥ २५ । १२ ॥
Special
प्रजापतिः । ईश्वरः=सूर्यः । स्वराट्पङ्क्तिः । पञ्चमः ॥ -