Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 4

34 Mantra
2/4
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ꣳ समि॑धीमहि। अग्ने॑ बृ॒हन्त॑मध्व॒रे॥४॥

वी॒तिहो॑त्र॒मिति॑ वी॒तिऽहो॑त्रम्। त्वा॒। क॒वे॒। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॒म्। सम्। इ॒धी॒म॒हि॒। अग्ने॑। बृ॒हन्त॑म्। अ॒ध्व॒रे ॥४॥

Mantra without Swara
वीतिहोत्रन्त्वा कवे द्युमन्तँ समिधीमहि । अग्ने बृहन्तमध्वरे ॥

वीतिहोत्रमिति वीतिऽहोत्रम्। त्वा। कवे। द्युमन्तमिति द्युऽमन्तम्। सम्। इधीमहि। अग्ने। बृहन्तम्। अध्वरे॥४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वीतिहोत्रम्) वीतयो विज्ञापिता होत्राख्या यज्ञा येनेश्वरेण । यद्वा वीतयः प्राप्तिहेतवो होत्राख्या यज्ञक्रिया भवन्ति यस्मात्तं परमेश्वरं भौतिकं वा । वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । इत्यस्य रूपम् (त्वा) त्वां तं वा । अत्र पक्षे व्यत्ययः (कवे) सर्वज्ञ क्रान्तप्रज्ञ, कवि क्रान्तदर्शनं भौतिकं वा (युमन्तम्) द्यौर्बहुप्रकाशो विद्यते यस्मिंस्तम् । अत्र भूम्न्यर्थे मतुप् (सम्) सम्यगर्थे (इधीमहि) प्रकाशयेमहि । अत्र बहुलं छन्दसीति श्नमो लुक् (अग्ने) ज्ञानस्वरूपेश्वर प्राप्तिहेतुं भौतिकं वा (बृहन्तम्) सर्वेभ्यो महान्तं सुखवर्धकमीश्वरं बृहतां कार्याणां साधकं भौतिकं वा (अध्वरे) मित्रभावेऽहिंसनीये यज्ञे वा ॥ अयं मंत्रः श०१।३।४।६॥४॥
Essence
[हे.....अग्ने=जगदीश्वर ! वयं—[त्वा]=त्वां समिधीमहि]

अत्र श्लेषालङ्कारः ॥ यावन्ति क्रियासाधनानि क्रियया साध्यानि च वस्तूनि सन्ति

तानि सर्वाणीश्वरेणैव रचयित्वा ध्रियन्ते,

[ तात्पर्यमाह--]

मनुष्यैस्तेषां सकाशाद् गुणज्ञानक्रियाभ्यां बहव उपकाराः संग्राह्याः ॥ २ । ४ ॥
Subject
अथाग्निशब्देनोभावार्थावुपदिश्येते ॥
Meaning of Anvay
हे कवे ! सर्वज्ञ क्रान्तप्रज्ञ ! अग्ने !=जगदीश्वर ज्ञानस्वरूपेश्वर ! वयमध्वरे मित्रभावे बृहन्तं सर्वेभ्यो महान्तं सुखवर्धकमीश्वरं द्युमन्तं द्यौर्बहुप्रकाशो विद्यते यस्मिंस्तं वीतिहोत्रं वीतयो विज्ञापिता होत्राऽऽख्या यज्ञा येनेश्वरेण तं परमेश्वरं [त्वा] त्वां समीधीमहि सम्यक् प्रकाशयेमहि । इत्येकः ॥

 

वयमध्वरे अहिंसनीये यज्ञे वीतिहोत्रं वीतयः प्राप्तिहेतवो होत्राख्या यज्ञक्रिया भवन्ति यस्मात्तं भौतिकं द्युमन्तं द्यौर्बहुप्रकाशो विद्यते यस्मिँस्तं बृहन्तं बृहतां कार्याणां साधकं भौतिकं कवे=कवि क्रान्तदर्शनं भौतिकं त्वा=तम् अग्ने=भौतिकमग्निं प्राप्तिहेतुं भौतिकं समिधीमहि सम्यक् प्रकाशयेमहि ॥ इति द्वितीयः ॥ २ । ४ ॥
Special
परमेष्ठी प्रजापतिः । अग्नि=ईश्वरः, भौतिकश्वा। निचद् गायत्री। षड्जः ।