Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 34

34 Mantra
2/34
Devata- आपो देवता Rishi- वामदेव ऋषिः Chhand- भूरिक् उष्णिक्, Swara- ऋषभः
Mantra with Swara
ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रु॑तम्। स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन्॥३४॥

ऊर्ज॑म्। वह॑न्तीः। अ॒मृत॑म्। घृ॒तम्। पयः॑। की॒लाल॑म्। प॒रि॒स्रुत॒मिति॑ परि॒ऽस्रुत॑म्। स्व॒धाः। स्थ॒। त॒र्पय॑त। मे॒। पि॒तॄन् ॥३४॥

Mantra without Swara
ऊर्जँवहन्तीरमृतन्घृतम्पयः कीलालम्परिस्रुतम् । स्वधा स्थ तर्पयत मे पितऋृन् ॥

ऊर्जम्। वहन्तीः। अमृतम्। घृतम्। पयः। कीलालम्। परिस्रुतमिति परिऽस्रुतम्। स्वधाः। स्थ। तर्पयत। मे। पितॄन्॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ऊर्ज्जम्) इष्टं विविधं रसम् । ऊर्गतः ॥ श० १ | ७ ॥ १ ॥ २ ॥ ( वहन्तीः) प्रापयन्तीः स्वादिष्ठा आपः (अमृतम्) सर्वरोगहरं सुरसं मिष्टादिकम् (घृतम्) आज्यं (पयः) दुग्धम् (कीलालम्) सुसंस्कृतमन्नम् । कीलालं इत्यन्ननामसु पठितम् ॥ निघं० २ | ७ ॥ ( परिस्रुतम्) परितः=सर्वतः स्रुतं=सुरसयोगेन परिपक्वं फलादिकम् (स्वधाः) ये स्वमेव दधते ते (स्थ) सर्वे पितृसेविनो भवत (तर्प्पयत) सुखयत (मे) मम (पितृन्) पूर्वोक्तान् ॥ ३४ ॥

सपदार्थान्वयः- हे पुत्रादयः ! यूयं मे=मम पितॄन् पूर्वोक्तान् ऊर्ज्जम् इष्टं विविधं रसं वहन्तीःप्रापयन्तीः स्वादिष्ठा आपः अमृतं सर्वरोगहरं सुरसं मिष्टादिकंघृतम्आज्यंपयो दुग्धं कीलालं सुसंस्कृतमन्नंपरिस्रुतं परितः=सर्वतः सुतं सुरसयोगेन परिपक्वं फलादिकं दत्त्वा तर्प्पयत सुखयत ।

एवं तत्सेवनेन विद्याः प्राप्य स्वधाः=परस्वत्यागेन सदा स्वसेविनो ये स्वमेव दधते ते स्थ=भवत सर्वे पितृसेविनो भवत ॥ २ । ३४ ॥
Essence
[ हे पुत्रादयः ! यूयं ये=मम पितॄन्........तर्पयत]

ईश्वर आज्ञापयति=मनुष्याः सर्वान् पुत्रप्रभृतीन् प्रत्येवमादिशन्तु--युष्माभिर्मम पितरो जनका विद्याप्रदाश्च प्रीत्या नित्यं सेवनीयाः,

यथा=तैर्बाल्यावस्थायां विद्याप्रदानं समये च वयं यूयं च पालितास्तथैवारमाभिरपि ते सर्वदा सर्वथा सत्कर्त्तव्याः ।

[ हेतुमाह--]

यतो नैवाऽस्माकं मध्ये कदाचिद्विद्यानाशकृतघ्नदोषौ भवेतामिति ॥२॥ ३४ ॥
Subject
एते पितरः केन केन पदार्थेन सत्कर्त्तव्या इत्युपदिश्यते ॥
Meaning of Essence
पितृन्जनकान् विद्याप्रदाँश्च । तर्पयत=प्रीत्या नित्यं सेवध्वम् ।
Special
वामदेवः ! आपः=जलम् ॥ भुरिगुष्णिक् | ऋषभः ॥