Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 33

34 Mantra
2/33
Devata- पितरो देवताः Rishi- वामदेव ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम्। यथे॒ह पुरु॒षोऽस॑त्॥३३॥

आ। ध॒त्त॒। पि॒त॒रः॒। गर्भ॑म्। कु॒मा॒रम्। पुष्क॑रस्रज॒मिति॒ पुष्क॑रऽस्रजम्। यथा॑। इ॒ह। पुरु॑षः। अस॑त् ॥३३॥

Mantra without Swara
आधत्त पितरो गर्भङ्कुमारम्पुष्करस्रजम् । यथेह पुरुषो सत् ॥

आ। धत्त। पितरः। गर्भम्। कुमारम्। पुष्करस्रजमिति पुष्करऽस्रजम्। यथा। इह। पुरुषः। असत्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) समन्तात् (धत्त) धारयत (पितरः) ये पाँति विद्यान्नादिदानेन तत्संबुद्धौ(गर्भम्) गर्भमिव (कुमारम्) ब्रह्मचारिणम् (पुष्करस्रजम्) विद्याग्रहणार्था स्रग् धारिता येन तम् (यथा) येन प्रकारेण (इह) अस्मिन् संसारेऽस्मत्कुले वा (पुरुषः) विद्यापुरुषार्थयुक्तोऽयं मनुष्य: (असत्) भवेत् । लेट प्रयोगोऽयम् ॥ ३३ ॥

सपदार्थान्वयः--हे पितरः! ये पान्ति विद्यान्नादिदानेन तत्सम्बुद्धौ ! यूयं यथा येन प्रकारेण अयं ब्रह्मचारीह अस्मिन् संसारेऽस्मत्कुले वा शरीराऽऽत्मबलं प्राप्य [पुरुषः]=पुरुषवद्, विद्यापुरुषार्थयुक्तोऽयं मनुष्यः [असत्]=भवति भवेत्, तथैव गर्भं गर्भमिव पुष्करस्रजं विद्याग्रहणार्था स्रग् धारिता येन तं कुमारम्=विद्यार्थिनं ब्रह्मचारिणम् आधत्त=धारयत समन्ताद् धारयत ॥२।३३ ॥
Essence
[ हे पितरो! यूयं..........गर्भं पुष्करस्रजंकुमारम्=विद्यार्थिनमाधत्त=धारयत ]

 अत्र लुप्तोपमालङ्कारः॥ईश्वर आज्ञापयति--विद्वद्भिर्विदुषीभिश्च विद्यार्थिन: कुमारा, विद्यार्थिन्यः कुमार्यश्च विद्यादानाय गर्भवद्धार्याः ।

यथा गर्भे देहः क्रमेण वर्धते तथैव सुशिक्षयैव, एतश्च सविद्यायां वर्धयितव्याः पालनीयश्च, यतो विद्यायोगेन धार्मिका: पुरुषार्थयुक्ता भूत्वा सदैव सुखयुक्ता भवेयुरित्येतत् सदैवानुष्ठेयमिति ॥२ । ३३ ॥
Subject
तैः किं किं कर्त्तव्यमित्युपदिश्यते ॥
Special
वामदेवः । पितरः=विद्वांसः॥निचृद्गायत्री । षड्जः ॥