Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 32

34 Mantra
2/32
Devata- पितरो देवताः Rishi- वामदेव ऋषिः Chhand- ब्राह्मी बृहती,स्वराट् बृहती, Swara- मध्यमः
Mantra with Swara
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरः॒ पित॑रो॒ नमो॑ वो गृ॒हान्नः॑ पितरो दत्त स॒तो वः॑ पितरो देष्मै॒तद्वः॑ पितरो॒ वासः॑॥३२॥

नमः॑। वः॒। पि॒त॒रः॒। रसा॑य। नमः॑। वः॒। पि॒त॒रः॒। शोषा॑यः नमः॑। वः॒। पि॒त॒रः॒। जी॒वाय॑। नमः॑। वः॒। पि॒त॒रः॒। स्व॒धायै॑। नमः॑। वः॒। पि॒त॒रः॒। घो॒राय॑। नमः॑। वः॒। पि॒त॒रः॒। म॒न्यवे॑। नमः॑। वः॒। पि॒त॒रः॒। पि॒त॒रः॑। नमः॑। वः॒। गृ॒हान्। नः॒। पि॒त॒रः॒। द॒त्त॒। स॒तः। वः॒। पि॒त॒रः॒। दे॒ष्म॒। ए॒तत्। वः॒। पि॒त॒रः॒। वासः॑ ॥३२॥

Mantra without Swara
नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोरय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासऽआधत्त ॥

नमः। वः। पितरः। रसाय। नमः। वः। पितरः। शोषायः नमः। वः। पितरः। जीवाय। नमः। वः। पितरः। स्वधायै। नमः। वः। पितरः। घोराय। नमः। वः। पितरः। मन्यवे। नमः। वः। पितरः। पितरः। नमः। वः। गृहान्। नः। पितरः। दत्त। सतः। वः। पितरः। देष्म। एतत्। वः। पितरः। वासः॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(नमः) नम्रीभावे । यज्ञो नमो यज्ञियानेवैनानेतत्रौत्ति ॥ श० २ | ४ | २ | २४ ॥ (व:) युष्मभ्यम् ( पितरः) विद्यानन्ददायकास्तत्संबुद्धौ (रसाय) रसभूताय विज्ञानानन्दप्रापणाय (नमः) आर्द्रीभावे (व:) युष्मभ्यम् (पितरः) दुःखनाशकत्वेन रक्षकास्तत्संबुद्धी (शोषाय) दुःखानां शत्रूणां वा निवारणाय (नमः) निरभिमानार्थे (वः) युष्मभ्यम् (पितरः) धर्म्यजीविकाज्ञापकास्तत्संबुद्धौ (जीवाय) जीवति प्राणं धारयति प्राणधारणेन समर्थो भवति यस्मिन्नायुषि तस्मै (नमः) शीलधारणार्थे (वः) युष्मभ्यम् (पितरः) अन्नभोगादिविद्याशिक्षकास्तत्संबुद्धौ (स्वधायै) अन्नाय पृथिवीराज्याय न्यायप्रकाशाय वा । स्वधेत्यन्ननामसु पठितम् ॥ निघं॰ २ । ७ ॥ स्वधे इति द्यावापृथिव्योर्नामसु पठितम् ॥ निघं॰ ३।३० ॥ ( नमः) नम्रत्वधारणे (वः) युष्मभ्यम् (पितरः) पापापत्कालनिवारकास्तत्संबुद्धौ (घोराय) हन्यन्ते सुखानि यस्मिन् तद् घोरं तन्निवारणाय । हन्तेरच् घुर् च ॥ उ० ५ । ६४ ॥ अनेन घोर इति सिद्धयति (नमः) क्रोधस्यागे (वः) युष्मभ्यम् (पितरः) श्रेष्ठानां पालका दुष्टेषु क्रोधकारिणस्तत्संबुद्धौ (मन्यवे) मन्यन्तेऽभिमानं कुर्वन्ति यस्मिन् स मन्युः क्रोधो दुष्टाचरणेषु दुष्टेषु तद्भावनाय | यजिमनि० ॥ उ०३ | २०॥अनेन मन्यतेर्युच् प्रत्ययः (नमः) सत्कारे (व:) युष्मभ्यम् (पितरः) प्रीत्यापालकास्तत्संबुद्धौ (नमः) ज्ञानग्रहणार्थे (व:) युष्मभ्यम् (गृहान्) गृह्णन्ति विद्यादिपदार्थान् येषु तान् (नः) अस्मभ्यमस्माकं वा (पितरः) विद्यादातारस्तत्संबुद्धौ (दत्त) तत्तद्दानं कुरुत (सतः) विद्यमानानुत्तमान् पदार्थान् (व:) युष्मभ्यम् (पितरः) जनकादयस्तत्संबुद्धौ (देष्म) देयास्म । डुदाञ् इत्यस्मादाशीर्लिङ्युत्तम बहुवचने । लिङ्याशिष्यङ्त्यङ् । छन्दस्युभथेति मस आर्द्धधातुकसंज्ञामाश्रित्य सकारलोपाभावः । सार्वधातुकसंज्ञामाश्रित्यातो येय इतीयदेशश्च (एतत्) अस्मद्दत्तम् (व:) युष्मभ्यम् ( पितरः) सेवितुं योग्यास्तत्संबुद्धौ (वासः) वसते आच्छादयन्ते शरीरं येन तद्वस्त्रादिकम् ॥ अयं मंत्रः श० २ ॥ ४ । २ । २४ व्याख्यातः ॥ ३२ ॥
Essence
[ अनेक नमः पदानामभिप्रायमाह--]

यत्रानेके नमः शब्दा अनेकशुभगुणसत्कार द्योतनार्थाः।

[हे पितरः! रसाय, शोषाय, जीवाय,स्वधायै, घोराय, मन्यवे वोनमोऽस्तु]

यथावसन्तग्रीष्मवर्षाशरद्धेहमन्तशिशिरा: षडृतवो रसशोषजीवान्नघनत्वमन्यूत्पादका भवन्ति,

[हे पितरः! विद्यायैसत्काराय वो नमोऽस्तु,......यूयं....विद्याशिक्षे नित्यं दत्त,........वयं वः=युष्मभ्यं सतः=पदार्थान् देष्म]

तथैव--ये पितरोऽनेकविद्योपदेशैर्मनुष्यान् सततं प्रीणयन्ति तानुत्तमैः पदार्थैः सत्कृत्य तेभ्य: सततं विद्योपदेशा ग्राह्या: ॥ २ । ३२ ॥
Subject
अथ कथं किमर्थोऽयं पितृयज्ञः क्रियत इत्युपदिश्यते ॥
Meaning of Anvay
हे पितरः ! विद्याऽऽनन्ददायकास्तत्सम्बुद्धौ ! रसाय रसभूताय विज्ञानाऽऽनन्दप्रापणाय वः=युष्मभ्यं नमः नम्रीभावत्वम् अस्तु ।

हे पितरः ! दुःखनाशकत्वेन रक्षकास्तत्सम्बुद्धौ ! शोषाय दुःखानां शत्रूणां वा निवारणाय वो युष्मभ्यं नम आर्द्रीभावः अस्तु ।

हे पितरः ! धर्म्यजीविका ज्ञापकास्तत्सबुद्धौ ! जीवायजीवति=प्राणं धारयति, प्राणधारणेन समर्थो भवति यस्मिन्नायुषि तस्मै वो युष्मभ्यं नमो निरभिमानत्वम् अस्तु ।

हे पितरः ! अन्नभोगादिविद्या शिक्षकास्तत्सम्बुद्धौ ! स्वधायै अन्नाय पृथिवीराज्याय न्यायप्रकाशाय वा वो युष्मभ्यं नमः शीलधारणत्वम् अस्तु ।

हे पितरः ! पापाऽऽपत्कालनिवारकास्तत्सम्बुद्धौ ! घोराय हन्यन्ते सुखानि यस्मिन् तद् घोरं तन्निवारणाय वो युष्मभ्यं नमो नम्रत्वधारणम् अस्तु ।

हे पितरः ! श्रेष्ठानां पालका दुष्टेषु क्रोधकारिणस्तत्सम्बुद्धौ ! मन्यवे मन्यन्ते अभिमानं कुर्वन्ति यस्मिन् स मन्युः क्रोधो दुष्टाचरणेषु दुष्टेषु तद् भावाय वो युष्मभ्यं नमः क्रोधत्यागः अस्तु ।

हे पितरः ! प्रीत्या पालकास्तत्सम्बुद्धौ !स्वधायै वो युष्मभ्यं नमः सत्कारः अस्तु ।

हे पितरः ! सत्काराय वो युष्मभ्यं नमो ज्ञानग्रहणम्अस्तु ।

हे पितरः! विद्यादातारस्तत्सम्बुद्धौ ! यूयं [नः]=अस्माकम् अस्मभ्यमस्माकं वा [गृहान्] गृहाणि गृह्णन्ति विद्यादिपदार्थान् येषु तान् नित्यमागच्छत, आगत्य च शिक्षाविद्ये नित्यं दत्त तत्तद्दानं कुरुत ।

हे पितरः ! जनकादयस्तत्सम्बुद्धौ ! वयं वः=युष्मभ्यं सतः=पदार्थान्विद्यमानानुत्तमान् पदार्थान् नित्यं देष्म देयास्म ।

हे पितरः ! सेवितुं योग्यास्तत्सम्बुद्धौयूयमस्माभिः [वः] युष्मभ्यम् एतद् अस्मद्दत्तं वासः=वस्त्रादिकं वसते=आच्छादयन्ते शरीरं येन तद् वस्त्रादिकं स्वीकुरुत ॥ २ । ३२ ॥
Meaning of Essence
पितर:=वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराः षड् ऋतवः ।
Special
वामदेवः । पितरः=जनकादयः। मन्यवे पर्यन्तस्य ब्राह्मी बृहती। अग्रे निचृद् बृहती ।

मध्यमः ॥