Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 31

34 Mantra
2/31
Devata- पितरो देवताः Rishi- वामदेव ऋषिः Chhand- बृहती, Swara- मध्यमः
Mantra with Swara
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम्। अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत॥३१॥

अत्र॑। पि॒त॒रः॒। मा॒द॒य॒ध्व॒म्। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। वृ॒षा॒य॒ध्व॒म्। वृ॒षा॒य॒ध्व॒मिति॑ वृषऽयध्वम्। अमी॑मदन्त। पि॒तरः॑। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। अ॒वृ॒षा॒यि॒ष॒त॒ ॥३१॥

Mantra without Swara
अत्र पितरो मादयध्वँयथाभागमा वृषायध्वम् । अमीमदन्त पितरो यथाभागमा वृषायिषत ॥

अत्र। पितरः। मादयध्वम्। यथाभागमिति यथाऽभागम्। आ। वृषायध्वम्। वृषायध्वमिति वृषऽयध्वम्। अमीमदन्त। पितरः। यथाभागमिति यथाऽभागम्। आ। अवृषायिषत॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अत्र) अस्माकं सत्कारसंयुक्ते व्यवहारे स्थाने वा (पितरः) पान्ति पालयन्ति सद्विद्याशिक्षाभ्यां ये ते तत्संबुद्धौ (मादयध्वम्) हर्षयध्वम् (यथाभागम्) भागमनतिक्रम्य कुर्वन्तीति यथाभागम् (आ) समन्तात् (वृषायध्वम्) आनन्दसेक्तारो वृषा इवाचरत । कर्तुः क्यङ् सलोपश्च ॥ अ० ३ । १ । ११ ।अनेन क्यङ् प्रत्ययः (अमीमदन्त) आनन्दयतास्यमान् मोदयत विद्यां ज्ञापयत वा (पितरः) विद्वांसो विद्यादानेन रक्षका: (यथाभागम् ) भागं भागं प्रतीति यथाभागम् । अत्र वीप्सार्थे प्रतिः । (आ) आभि- मुख्यतया (अवृषायिषत) विद्याधर्मशिक्षया हर्षकारका भवत । लोडर्थे लुङ् ॥ अयं मंत्रः श० २ | ४ | २ | २०-२२ व्याख्यातः ॥ ३१ ॥

सपदार्थान्वयः- हे पितरः! पान्ति=पालयन्ति सद्विद्याशिक्षाभ्यां ये ते, तत्सम्बुद्धौ, यूयमत्र अस्माकं सत्कार-संयुक्ते व्यवहारे, स्थाने वा यथाभागं भागमनतिक्रम्य कुर्वन्तीति यथाभागम् अ+वृषायध्वं समन्तादानन्दसेक्तारो वृषा इवाऽऽचरत ।

[पितर:!] विद्वांसो विद्यादानेन रक्षकाः ! मादयध्वं हर्षयध्वम्, अस्मान् यथाभागं भाग भागं प्रतीति यथाभागम् आ+अवृधायिषत आभिमुख्यतया विद्या-धर्म-शिक्षया हर्षकारका भवत, अमीमदन्त अस्मान् हर्षयत आनन्दयतास्मान् मोदयत विद्यां ज्ञापयत वा ॥ २ । ३१ ॥
Essence
ईश्वरं आज्ञापयति-मातापित्रादीन् विदुषोऽध्यापकान्, धार्मिकान् पितॄन् समीपस्थानागच्छतश्च दृष्ट्वैवं वाच्यं, सेवनं च कार्यम्—

[ हे पितरः! यूयमत्र यथाभागमावृषायध्वम्]

हे अस्मत्पितरो ! यूयं स्वागतमागच्छतास्मद्विषये, यथायोग्यान् भोगानासनादींश्चेमानस्मद्दत्तान् स्वीकृत्य सुखयत, यद्यदावश्यकं युष्माकमिष्टं वस्त्वस्माभिरानेतुं योग्यं तदाज्ञापयत । !

[पितरः! मादयध्वमस्मान् यथाभागमावृषायिषत, अमीमदन्त=अस्मान् हर्षयत]

एवमत्राऽस्माभिः साकृताः सन्तो भवन्तः प्रश्नोत्तरविधानेनाऽस्मान् स्थूलसूक्ष्मविद्याधर्मोपदेशेन यथावद् वर्द्धयन्तु। युष्मद्वर्द्धिता वयं नित्यं सत्क्रियाः कृत्वाऽन्यैः कारयित्वा च सर्वेषां प्राणिनां सुखविद्योन्नतीः नित्यं कुर्यामेति ॥ २ ॥ ३१ ॥
Subject
मनुष्यर्धामिका ज्ञानिनो विद्वांसः कथं सत्कर्त्तव्या इत्युपदिश्यते ॥
Meaning of Essence
पितरः=मातापित्रादयः, विद्वांसोऽध्यापकाः । यथाभागम्=यथायोग्यंभोगम् ।
Special
वामदेवः । पितरः=विद्वांसः । मध्यमः ॥वामदेवः । पितरः=विद्वांसः । मध्यमः ॥