Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 30

34 Mantra
2/30
Devata- अग्निर्देवता Rishi- वामदेव ऋषिः Chhand- भूरिक् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ऽअसु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति। प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात् प्रणु॑दात्य॒स्मात्॥३०॥

ये। रू॒पाणि॑। प्र॒ति॒मु॒ञ्चमा॑ना॒ इति॑ प्रतिऽमुञ्चमा॑नाः। असु॑राः। सन्तः॑। स्व॒धया॑। चर॑न्ति। प॒रा॒पुर॒ इति॑ परा॒ऽपुरः॑। नि॒ऽपुर॒ इति॑ नि॒पुरः॑। ये। भर॑न्ति। अ॒ग्निः। तान्। लो॒कात्। प्र। नु॒दा॒ति॒। अ॒स्मात् ॥३०॥

Mantra without Swara
ये रूपाणि प्रतिमुञ्चमानाऽअसुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान्लोकात्प्र णुदात्यस्मात् ॥

ये। रूपाणि। प्रतिमुञ्चमाना इति प्रतिऽमुञ्चमानाः। असुराः। सन्तः। स्वधया। चरन्ति। परापुर इति पराऽपुरः। निऽपुर इति निपुरः। ये। भरन्ति। अग्निः। तान्। लोकात्। प्र। नुदाति। अस्मात्॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ये) मनुष्याः (रूपाणि) अन्तःस्थानि ज्ञानमध्ये यादृशानि ज्ञानानि सन्ति (प्रतिमुञ्चमानाः) मुञ्चन्त आभिमुख्यं ये प्रतीतं मुञ्चन्ते त्यजन्ति ते (असुराः) धर्माच्छादकाः (सन्तः) वर्त्तमानाः (स्वधया) पृथिव्या सह । स्वधे इति द्यावापृथिव्योर्नामसु पठितम् ॥ निघं० ३ । ३० ॥ (चरन्ति) वर्त्तन्ते (परापुरः) परागतानि स्वसुखार्थान्यधर्मकार्याणि पिपुरति ते (निपुरः) निकृष्टान् दुष्टस्वभावान् पिपुरति पूरयन्ति ते । अत्रोभयत्र क्विप् (ये) स्वार्थसाधनतत्पराः (भरन्ति) अन्यायेन परपदार्थान् धरन्ति (अग्निः) जगदीश्वरः । युष्मत्ततक्षुष्वन्तः पादम् ॥ अ० ८ । ३ । १०३ ॥ अनेन मूर्धन्यादेशः (तान्) दुष्टान् (लोकात्) स्थानादस्मद्दर्शनाद्वा (प्रणुदाति) दूरीकरोतु (अस्मात्) प्रत्यक्षात् ॥ अयं मंत्रः श० २।४।२।१५ व्याख्यातः ॥ ३० ॥
Essence
[ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति,....ये......अन्यायेन परपदार्थान भरन्ति=धरन्ति]

ये दुष्टा मनुष्या मनोदेहवाग्भिर्मिथ्या चरित्वा पृथिव्यामन्यायेन प्राणिनः पीडयित्वा स्वसुखाय परपदार्थान् सञ्चिन्वन्ति ।

 

[अग्निः= ईश्वरो.....तान्स्माल्लोका अणुदाति=दूरीकरोतु]

ईश्वरस्तान् दुःखयुक्तान् मनुष्येतरनीचशरीरधारिणः कृत्वा येषु पापफलानि भुक्त्वा देहधारणे योग्यान् करोति ।

                        [तात्पर्यमाह--]

अतो मनुष्यैरीदृशेभ्यो मनुष्येभ्यः पापकर्मभ्यो वा पृथक् स्थित्वा सदैव धर्म एक सेवनीय इति ॥२। ३० ॥
Subject
कीदृग्लक्षणास्तेऽसुरा भवन्तीत्युपदिश्यते ॥
Meaning of Anvay
अग्निः=ईश्वरोजगदीश्वरो ये मनुष्या रूपाणि अन्तःस्थानि ज्ञानमध्ये यादृशानि ज्ञानानि सन्ति तानि प्रतिमुञ्चमाना मुञ्चन्त आभिमुख्यं ये प्रतीत मुञ्चन्ते=त्यजन्ति ते असुरा धर्माऽच्छादकाः सन्तो वर्त्तमानाः स्वधया पृथिव्या सह चरन्ति वर्त्तन्ते,

ये स्वार्थासाधनतत्पराः च परापुरः परागतानि स्वसुखार्थान्यधर्मकार्याणि पिपुरति ते निपुरो निकृष्टान् दुष्टस्वभावान् पिपुरति=पूरयन्ति ते सन्तोऽन्यायेन परपदार्थान् भरन्ति=धरन्ति अन्यायेन परपदार्थान् धरन्ति, तान् दुष्टान् अस्मात् प्रत्यक्षात् लोकात् स्थानादस्मद्दर्शनाद्वा प्र+णुदाति-दूरीकरोतु ॥ २। ३० ॥
Meaning of Essence
असुरा:=दुष्टा मनुष्याः। भरन्ति=संचिन्वन्ति ।

 
Special
वामदेवः । अग्निः=ईश्वरः ॥ भूरिक् पंक्तिः। पंचमः ॥