Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 3

34 Mantra
2/3
Devata- अग्निः सर्वस्य Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् आर्ची त्रिष्टुप्,भूरिक् आर्ची पङ्क्ति,पङ्क्ति, Swara- धैवतः, पञ्चम
Mantra with Swara
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒डऽई॑डि॒तः॥३॥

ग॒न्ध॒र्वः। त्वा॒। वि॒श्वाव॑सुः॒। वि॒श्व॑वसु॒रिति॑ वि॒श्वऽव॑सुः। परि॑। द॒धा॒तु॒। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। इन्द्र॑स्य। बा॒हुः। अ॒सि॒। दक्षि॑णः। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः। मि॒त्रावरु॑णौ। त्वा॒। उ॒त्त॒र॒तः। परि॑। ध॒त्ता॒म्। ध्रु॒वेण॑। धर्म॑णा। विश्व॑स्य। अरि॑ष्ट्यै। यज॑मानस्य। प॒रि॒धिरिति॑ परि॒ऽधिः। अ॒सि॒। अ॒ग्निः। इ॒डः। ई॒डि॒तः ॥३॥

Mantra without Swara
गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्नडऽईडितः । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः । मित्रावरुणौ त्वोत्तरतः परि धत्तान्धु्रवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिडऽईडितः ॥

गन्धर्वः। त्वा। विश्वावसुः। विश्ववसुरिति विश्वऽवसुः। परि। दधातु। विश्वस्य। अरिष्ट्यै। यजमानस्य। परिधिरिति परिऽधिः। असि। अग्निः। इडः। ईडितः। इन्द्रस्य। बाहुः। असि। दक्षिणः। विश्वस्य। अरिष्ट्यै। यजमानस्य। परिधिरिति परिऽधिः। असि। अग्निः। इडः। ईडितः। मित्रावरुणौ। त्वा। उत्तरतः। परि। धत्ताम्। ध्रुवेण। धर्मणा। विश्वस्य। अरिष्ट्यै। यजमानस्य। परिधिरिति परिऽधिः। असि। अग्निः। इडः। ईडितः॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(गन्धर्वः) यो गां=पृथिवीं वाणीं वा धरति धारयति वा स गन्धर्वः सूर्यलोकः (त्वा) तम् (विश्वावसुः) विश्वं वासयति यः सः (परि) सर्वतोभावे (दधातु) दधाति वा । अत्र लडर्थे लोट् (विश्वस्य) सर्वस्य जगतः (अरिष्ट्यै) दुःखनिवारणेन सुखाय (यजमानस्य) यज्ञानुष्ठातुः (परिधिः) परितः=सर्वतः सर्वाणि वस्तूनि धीयन्ते येन सः (असि) भवति । अत्र चतुर्षु प्रयोगेषु पुरुषव्यत्ययः (अग्निः) (इडः) स्तोतुमर्हः । अत्र वर्णव्यत्ययेन ह्रस्वादेशः (ईडितः) स्तुतः (इन्द्रस्य) सूर्यस्य (बाहुः) बलं बलकारी वा (असि) अस्ति (दक्षिणः) वष्टे: प्रापकः । दक्षधातोर्गत्यर्थत्वादत्र प्राप्त्यर्थो गृह्यते (विश्वस्य) सर्वप्राणि-

समूहस्य (अरिष्ट्यै) सुखाय (यजमानस्य) शिल्पविद्यां चिकीर्षोः (परिधिः) विद्यापरिधानम् (असि) भवति (अग्निः) विद्युत् (इडः) दाहप्रकाशादिगुणाधिक्येन स्तोतुमर्ह, (ईडितः) अध्येशितः। [मित्रावरुणौ] (त्वा) तम् (उत्तरतः) उत्तरकाले (परिधत्ताम् ) सर्वतो धारयतो वा । अत्र लडर्थे लोट् (ध्रुवेण) निश्चलेन (धर्मणा) स्वाभाविकधारणशक्त्या (विश्वस्य) चराचरस्य (अरिष्ट्यै) सुखहेतवे (यजमानस्य) सर्वमित्रस्य (परिधिः) विद्यावधिः (अग्निः) प्रत्यक्षो भौतिक: (इडः) विद्याप्राप्तये स्तोतुमर्हः (ईडितः) विद्यामीप्सुभिः सम्यगध्येषितव्यः। अयं मंत्रः श०१।३। ४ । १-५ व्याख्यातः ॥ ३॥
Essence
[योऽयं गन्धर्वः... अग्निः =विद्युत् [असि]=अस्ति, सोऽपीमं यज्ञं सर्वतः परिदधात्येतान् मनुष्यो यथागुणं सम्यग् दधातु]

ईश्वरेण यः सूर्य—विद्युत्--प्रत्यक्षरूपेण त्रिविधोऽग्निर्निर्मितः स मनुष्यैर्विद्यया सम्यग्योजित: सन् बहूनि कार्याणि साधयतीति ॥ २।३॥
Subject
स यज्ञोऽग्न्यादिभिर्धार्यत इत्युपदिश्यते ॥
Meaning of Anvay
विद्वद्भिर्योऽयं गन्धर्वः यो गां पृथिवीं वाणीं व धरति धारयति वा स गन्धर्वः सूर्यलोकः विश्वावसुः विश्वं वासयति यः स इडः स्तोतुमर्हः [अग्निः] ईडितः स्तुतः असि=अस्ति, स विश्वस्य सर्वस्य जगतो यजमानस्य यज्ञोऽनुष्ठातुः चाऽरिष्ट्यै दुःखनिवारणेन सुखाय यज्ञं परि+दधाति, तस्मात् [त्वा]=तं विद्यासिद्धयर्थं मनुष्यो यथावत् परिदधातु सर्वतो दधाति वा।

विदुषा यो वायुरिन्द्रस्य सूर्यस्य बाहुः बलं बलकारी वा दक्षिणः वृष्टेः प्रापकः परिधिः परितः=सर्वतः सर्वाणि वस्तूनि धीयन्ते येन स इड: दाहप्रकाशादिगुणाऽऽधिक्येन स्तोतुमर्हः ईडितः अध्येषितः अग्निः विद्युत् चाऽसि=अस्ति भवति, स सम्यक् प्रयोजितो यजमानस्य शिल्पविद्यां चिकीर्षोः विश्वस्य सर्वप्राणिसमूहस्य अरिष्ट्यै सुखाय असि भवति।

यौ ब्रह्माण्डस्थौ गमनागमनशीलौ मित्रावरुणौ=प्राणाऽपानौ स्तस्तौ ध्रुवेण निश्चलेन धर्मणा स्वा- भाविकधाराशक्त्या उत्तरतः उत्तरकाले विश्वस्य चराचरस्य यजमानस्य सर्वमित्रस्य अरिष्ट्यै सुखहेतवे [त्वा]=तं यज्ञं परिधत्ताम्=सर्वतो धारयतः।

यो विद्वदि्भः इडः विद्याप्राप्तये स्तोतुमर्हः परिधिः विद्याऽवधि: ईडितः विद्यामभीप्सुभिः सम्यगध्येषितव्यः अग्निः=विद्युत् प्रत्यक्षो भौतिक: [असि]=अस्ति, सोऽपीमं यज्ञं सर्वतः परिद्धात्ये- तान्मनुष्यो यथागुणं सम्यग् दधातु ॥ २ । ३ ॥
Special
परमेष्ठी प्रजापतिः । अग्निः=सूर्यः, विद्युत्, स्थूलाग्निः॥ आद्यस्य भुरिगार्च्ची त्रिष्टुप् । धैवतः । मध्यभागस्यभुरिगार्च्ची पंक्तिः । अत्यन्स्य पंक्तिः । उभयत्र पंचमः ।