Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 29

34 Mantra
2/29
Devata- अग्निर्देवता Rishi- वामदेव ऋषिः Chhand- स्वराट् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑। अप॑हता॒ऽअसु॑रा॒ रक्षा॑सि वेदि॒षदः॑॥२९॥

अ॒ग्नये॑। क॒व्य॒वाह॑ना॒येति॑ कव्य॒ऽवाह॑नाय। स्वाहा॑। सोमा॑य। पि॒तृ॒मत॒ इति॑ पितृ॒ऽमते॑। स्वाहा॑। अप॑हता॒ इत्यप॑ऽहताः। असु॑राः। रक्षा॑सि। वे॒दि॒षदः॑। वे॒दि॒सद॑ इति॑ वेदि॒ऽषदः॑ ॥२९॥

Mantra without Swara
अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा अपहताऽअसुरा रक्षाँसि वेदिषदः ॥

अग्नये। कव्यवाहनायेति कव्यऽवाहनाय। स्वाहा। सोमाय। पितृमत इति पितृऽमते। स्वाहा। अपहता इत्यपऽहताः। असुराः। रक्षासि। वेदिषदः। वेदिसद इति वेदिऽषदः॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नये) अङ्गति=सर्वान् पदार्थान् दग्ध्वा देशान्तरे प्रापयति तस्मै (कव्यवाहनाय) कुवन्ति= शब्दयन्ति सर्वा विद्या ये ते कवयः क्रान्तदर्शना: क्रान्तप्रज्ञाश्च तेभ्यो हितानि कर्माणि कव्यानि, तानि यो वहति=प्रापयति तस्मै (स्वाहा) सुष्ठु आह यस्यां सा (सोमाय) सुवन्त्यैश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै (पितृमते) पितर=ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै । अत्र नित्ययोगे मतुप् । ऋतवः पितरः । श० २। ४ । २ । २४ ॥ (स्वाहा) स्वं दधात्यनया सा स्वाहा क्रिया (अपहताः) अपहिंसिताः । (असुराः) अविद्वांसो दुष्टस्वभावाः प्राणिनः (रक्षांसि) परपीडकाः, स्वार्थिनः (वेदिषदः) ये वेद्यां पृथिव्यां सीदन्ति ते । यावती वेदिस्तावती पृथिवी ॥ श० १।२।३ । ७ ॥ अयं मन्त्रः श० २।४ । २ । १२-१३ व्याख्यातः ॥ २६ ॥
Essence
[मनुष्यैः कव्यवाहनायाग्नये स्वाहा]

विद्वद्भिर्युक्त्या संयोजितोऽयमग्नि: शिल्पिनां कार्याणि वहति,

[सोमाय स्वाहा.....वेदिषदो रक्षांसि, असुराः, ते नित्यमपहताः कार्याः]

येन संसारस्योपकारेण सामयिकं सुखं पृथिवीस्थानां दुष्टानां दोषाणां च निवृत्तिः स्यादयं प्रयत्नो निवृत्तिः नित्यं विधेय इति ॥ २।२९॥
Subject
अथ भौतिकावग्नीषोमौ कीदृशगुणौ वर्तेते इत्युपदिश्यते ॥
Meaning of Anvay
मनुष्यैः कव्यवाहनाय कुवन्ति=शब्दयन्ति सर्वा विद्या ये ते कवयः=क्रान्तदर्शनाः कान्तप्रज्ञाश्च, तेभ्यो हितानि कर्माणि कव्यानि, तानि यो वहति=प्रापयति तस्मै अग्नये अङ्गति=सर्वान् पदार्थान् दन्ध्वा देशान्तरे प्रापयति=तस्मै स्वाहा सुष्टु आह यस्यां सा, पितृमते पितरः=ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै सोमाय सुवन्ति=ऐश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै स्वाहा स्व दधात्यनया सा स्वाहा क्रिया [तां] विधाय ये वेदिषदो ये वेद्यां=पृथिव्यां सीदन्ति ते रक्षांसि परपीडकाः, स्वार्थिनः असुराः अविद्वांसो दुष्टस्वभावाः प्राणिनः ते नित्यमपहताः अपहिंसिताः कार्याः ॥ २ । २९॥
Meaning of Essence
कव्यवाहनाय=शिल्पिनां कार्यवाहनाय । सोमाय=संसारस्योपकाराय । स्वाहा=सामयिकं सुखम् । वेदिषदः=पृथिवीस्थाः । रक्षांसि=दोषा: । असुराः=दुष्टाः ।
Special
वामदेवः । अग्निः=भौतिकोऽग्निः ॥ स्वराडार्षी अनुष्टुप् । गान्धारः ॥