Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 28

34 Mantra
2/28
Devata- अग्निर्देवता Rishi- वामदेव ऋषिः Chhand- भूरिक् उष्णिक्, Swara- ऋषभः
Mantra with Swara
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि॒ सोऽस्मि॥२८॥

अग्ने॑। व्र॒त॒प॒त॒ऽइति॑ व्रतऽपते। व्र॒तम्। अ॒चा॒रि॒ष॒म्। तत्। अ॒श॒क॒म्। तत्। मे॒। अ॒रा॒धि॒। इ॒दम्। अ॒हम्। यः। ए॒व। अस्मि॑। सः। अ॒स्मि॒ ॥२८॥

Mantra without Swara
अग्ने व्रतपते व्रतमचारिषंन्तदशकंन्तन्मेराधीदमहँयऽएवास्मि सोस्मि ॥

अग्ने। व्रतपतऽइति व्रतऽपते। व्रतम्। अचारिषम्। तत्। अशकम्। तत्त्। मे। अराधि। इदम्। अहम्। यः। एव। अस्मि। सः। अस्मि॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) सत्यस्वरूपेश्वर ! (वतपते) व्रतं=नियतं यन्न्याय्यं कर्म तत्पतिस्तत्संबुद्धौ (व्रतम्) सत्यलक्षणम् (अचारिषम्) चरितवान् (तत्) पूर्वोक्तम् (अशकम् ) शक्तवान् (तत्) मया चरितुं योग्यम् (मे) मम (अराधि) संसाधितम् (इदम् ) प्रत्यक्षमाचरितुरितुम् (अहम्) मनुष्यः (यः) यादृशकर्मकारी (एव) निश्चयार्थे (अस्ति) वर्त्ते (सः) तादृशकर्मभोजी (अस्मि) भवामि ॥ अयं मंत्रः श०१।६।३। २२-२३ व्याख्यातः ॥ २८ ॥
Essence
[हे व्रतपतेऽग्ने !.....यन्मयाऽराधि तदेवाहं भुञ्जे, योऽहं यादृशकर्मकार्यस्मि सोऽहं तादृशफलभोग्योऽस्मि =भवामि]

मनुष्येणेदं निश्चेतव्यं--मयेदानीं यादृशं कर्म क्रियते तादृशमेवेश्वरव्यवस्थया फलं भुज्यते, भोक्ष्यते च ।

नहि कश्चिदपि जीवः स्वकर्म विरुद्धं फलमधिकं न्यूनं वा प्राप्तुं शक्नोति ।

[तात्पर्यमाह--]

तस्मात् सुखभोगाय धर्माण्येव कर्माणि कार्याणि, यतो नैव कदाचिद् दुःखानि स्युरिति ॥२।२८॥
Subject
अथ यत्सत्याचरणेन सुखं भवेत्तदुपदिश्यते ॥
Meaning of Anvay
हे व्रतपते ! व्रतं=नियतं यन्न्याय्यं कर्म तत्पतितत्सम्बुद्धौ ! अग्ने ! सत्यस्वरूपेश्वर ! भवता कृपया मदर्थं यद् [इदम्] प्रत्यक्षमाचरितुं व्रतं सत्यलक्षणम् अराधि संसाधितम्, तत् पूर्वोक्तम् अहं मनुष्यः अशकं शक्तवान्, अचारिषं चरितवान् ॥

यन्मयोऽराधि संसाधितम्, तत् मया चरितुं योग्यम् एव निश्चयेन अहं भुञ्जे ।

योऽहं=यादृशकर्मकार्यस्मि वर्ते, सोऽहं तादृशफलभोग्यः तादृशफलभोजी अस्मि=भवामि ॥ २। २८ ॥
Special
वामदेवः । अग्निः=ईश्वरः ॥ भुरिगुष्णिक् । ऋषभः ॥