Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 27

34 Mantra
2/27
Devata- सर्वस्याग्निः Rishi- वामदेव ऋषिः Chhand- निचृत् पङ्क्ति,गायत्री, Swara- पञ्चमः , षड्जः
Mantra with Swara
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ऽग्ने॒ऽहं गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः। अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तꣳ हिमाः॒ सूर्य्य॑स्या॒वृत॒मन्वाव॑र्ते॥२७॥

अग्ने॑। गृ॒ह॒प॒त॒ इति॑ गृहऽपते। सु॒गृ॒ह॒प॒तिरिति॑ सुऽगृहप॒तिः। त्वया॑। अ॒ग्ने॒। अ॒हम्। गृ॒हप॑ति॒नेति॑ गृ॒हऽप॑तिना। भू॒या॒स॒म्। सु॒गृ॒ह॒प॒तिरिति॑ सुऽगृहप॒तिः। त्वम्। मया॑। अ॒ग्ने॒। गृ॒हप॑ति॒नेति॑ गृ॒हऽप॑तिना। भू॒याः॒। अ॒स्थू॒रि। नौ॒। गार्ह॑पत्या॒नीति॒ गार्ह॑ऽपत्यानि। स॒न्तु॒। श॒तम्। हिमाः॑। सूर्य्य॒स्य। आ॒वृत॒मित्या॒ऽवृत॑म्। अनु॑। आ। व॒र्त्ते॒ ॥२७॥

Mantra without Swara
अग्ने गृहपते सुगृहपतिस्त्वयाग्ने हङ्गृहपतिना भूयासँ सुगृहपतिस्त्वम्मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि सन्तु शतँ हिमाः सूर्यस्यावृतमन्वावर्ते ॥

अग्ने। गृहपत इति गृहऽपते। सुगृहपतिरिति सुऽगृहपतिः। त्वया। अग्ने। अहम्। गृहपतिनेति गृहऽपतिना। भूयासम्। सुगृहपतिरिति सुऽगृहपतिः। त्वम्। मया। अग्ने। गृहपतिनेति गृहऽपतिना। भूयाः। अस्थूरि। नौ। गार्हपत्यानीति गार्हऽपत्यानि। सन्तु। शतम्। हिमाः। सूर्य्यस्य। आवृतमित्याऽवृतम्। अनु। आ। वर्त्ते॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) परमेश्वर भौतिको वा (गृहपते) गृह्णन्ति स्थापयन्ति पदार्थान् यस्मिन् ब्रह्माण्डे शरीरे निवासार्थे वा गृहे तस्य यः पतिः पालयिता तत्संबुद्धौ (सुगृहपतिः) शोभनानां गृहाणां पतिः पालयिता (त्वया) जगदीश्वरेणानेन विज्ञान सुगृहस्थेन वा (अग्ने) सर्वस्वामिन् विद्याप्राप्तिसाधको वा (अहम् ) गृहस्वामी मनुष्यो यज्ञानुष्ठाता वा (गृहपतिना) सर्वस्वामिना गृहपालकेन वा (भूयासम्) स्पष्टार्थः (सुगृहपतिः) शोभनश्चासौ गृहस्य पालकश्च सः (त्वम्) जगदीश्वरोऽयं धार्मिको वा (मया) सत्कर्मानुष्ठात्रा सह (अग्ने) जगदीश्वर ! प्रशस्तविद्य वा (गृहपतिना) धार्मिकेण पुरुषार्थिना गृहपालकेन वा (भूयाः) भवेः (अस्थूरि) तिष्ठन्ति यस्मिन्नालस्ये तत्स्थूरं तन्निन्दितं विद्यते यस्मिन् तत्स्थूरि न स्थूरि यथा स्यात्तथा । अत्र निन्दार्थ इनिः (नौ) आवयोर्गृहसंबन्धिनोः स्त्रीपुरुषयोः (गार्हपत्यानि) गृहपतिना संयुक्तानि कर्माणि । गृहपतिना संयुक्ते ञ्यः॥ अ० ४ । ४ । ९० ॥ (सन्तु) भवन्तु (शतम्) शतादधिकानि वा (हिमाः) हेमन्तर्तवः । भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति ॥ श० १ । ७ । ४ । १९ ॥ (सूर्यस्य) स्वप्रकाशस्येश्वरस्य विद्यान्यायप्रकाशकस्य विदुषो वा (आवृतम्) समन्ताद्वर्त्तन्तेऽहोरात्राणि यस्मिन् तं समयम् (अनु) अनुगतार्थे (आ) समन्तात् (वर्ते) वर्तमानो भवेयम् । अयं मंत्रः श० १।९।३। १९-२० व्याख्यातः ॥ २७॥
Essence
अत्र श्लेषालंकारः ॥ आवां स्त्री-पुरुषौ पुरुषार्थिनौ भूत्वा योऽस्य सर्वेषां स्थित्यर्थस्य जगतो गृहस्य सततं रक्षको जगदीश्वरो विद्वान् वाऽस्ति, तमाश्रित्य भौतिकाग्न्यादिभ्यः पदार्थेभ्य: स्थिरसुखसाधकानि सर्वाणि कर्माणि संसाध्य,

[एवं वर्तमानोऽहं वर्तमाना च, सूर्यस्यावृतं शतं हिमा अन्वावर्ते]

 

शतं वर्षाणि जीवेव, तथा—जितेन्द्रियत्वभावेन शतादधिकमपि सुखेन जीवनं भुंज्वहे इति ॥ २।२७॥

[हं गृहपते ! अग्ने=जगदीश्वर विद्वन् वा त्वं सुगृहपतिरसि, त्वया गृहपतिना सहाऽहं सुगृहपतिर्भूयासम् पुरुषयोर्गार्हत्ययान्यस्थूरि सन्तु]
Subject
अथ गृहाश्रमिभिरस्यानुष्ठानेन किं किं साधनीयमित्युपदिश्यते ॥
Meaning of Anvay
 हे गृहपते! गृह्णन्ति=स्थापयन्ति पदार्थान् यस्मिन् ब्रह्माण्डे शरीरे निवासार्थे वा गृहे तस्य यः पतिः पालयिता तत्सम्बुद्धौ ! अग्ने!=जगदीश्वर विद्वन् वा! परमेश्वर भौतिको वा! त्वं जगदीश्वरोऽयं धार्मिको वा सुगृहपतिः शोभनानां गृहाणां पतिः पालयिता असि।

[अग्ने !] सर्वस्वामिन् विद्याप्राप्तिसाधको वा ! त्वया जगदीश्वरेणऽनेन विज्ञानसुगृहस्थेन वा गृहपतिना सर्वस्वामिना गृहपालकेन वा सहाऽहं गृह-स्वामी मनुष्यो यज्ञाऽनुष्ठाता वा सुगृहपतिः शोभनश्चासौ गृहस्य पालकश्च स भूयासम् ।

[अग्ने !] जगदीश्वर प्रशस्तविद्य वा ! मया सत्कर्माऽनुष्ठात्रा सह गृहपतिना धार्मिकेण पुरुषार्थिना गृहपालकेन वा उपासितस्त्वं मम गृहपतिर्भूयाः भवेः ।

एवं नौ=स्त्रीपुरुषयोः आवयोर्गृहसम्बन्धिनो: स्त्रीपुरुषयोः गार्हपत्यानि गृहपतिना संयुक्तानि कर्माणि अस्थूरि तिष्ठन्ति यस्मिन्नालस्ये तत्स्थूरं, तन्निन्दितं विद्यते यस्मिन् तत्स्थूरि, न स्थूरि यथा स्यात्तथा सन्तु भवन्तु।

एवं वर्त्तमानोऽहं वर्त्तमाना च सूर्यस्य स्वप्रकाशस्येश्वरस्य विद्यान्यायप्रकाशकस्य विदुषो वा आवृतं समन्ताद्वर्त्तन्तेऽहोरात्राणि यस्मिंस्तं समय शतं शतादधिकानि वा हिमाः हेमन्तर्त्तवो अनु+आ+वर्त्ते समन्ताद्वर्त्तमानो भवेयम् ॥ २।२७॥
Special
परमेष्ठी प्रजापतिः । वामदेवः। अग्नि:=ईश्वरः, विद्वान्, भौतिकश्च ॥ पञ्चमः । पूर्वार्द्धे निचृत्पंक्तिः । पञ्चमः । उत्तरार्द्धे गायत्री । षड्जः ॥