Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 26

34 Mantra
2/26
Devata- ईश्वरो देवता Rishi- वामदेव ऋषिः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दाऽअ॑सि॒ वर्चो॑ मे देहि। सूर्य॑स्या॒वृत॒मन्वाव॑र्ते॥२६॥

स्व॒यं॒भूरिति॑ स्वय॒म्ऽभूः। अ॒सि॒। श्रेष्ठः॑। र॒श्मिः। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। अ॒सि॒। वर्चः॑। मे॒। दे॒हि॒। सूर्य्य॑स्य। आ॒वृत॒मित्या॒ऽवृत॑म्। अनु॑। आ। व॒र्त्ते॒ ॥२६॥

Mantra without Swara
स्वयम्भूरसि श्रेष्ठो रश्मिर्वर्चादाऽअसि वर्चा मे देहि । सूर्यस्यावृतमन्वावर्ते ॥

स्वयंभूरिति स्वयम्ऽभूः। असि। श्रेष्ठः। रश्मिः। वर्चोदा इति वर्चःऽदाः। असि। वर्चः। मे। देहि। सूर्य्यस्य। आवृतमित्याऽवृतम्। अनु। आ। वर्त्ते॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(स्वयंभूः) स्वयं भवतीत्यनादिस्वरूपः (असि) अस्ति वा (श्रेष्ठः) अतिशयेन प्रशस्तः (रश्मिः) प्रकाशकः प्रकाशमयो वा (वर्चोदाः) वर्चो विद्यां दीप्तिं वा ददातीति (असि) भवसि (वर्चः) विज्ञानं प्रकाशनं वा (मे) मह्यम् (देहि) ददाति वा (सूर्यस्य) चराचरस्यात्मनो जगदीश्वरस्य विदुषो जीवस्य वा॥ सूर्य आत्मा जगतस्तस्थुषश्च० ॥ य० ७ । ४२ ॥ अनेनेश्वरस्य ग्रहणम् । इति पदनामसु पठितम् निघं० ५॥ ६॥ इति गत्यर्थेन ज्ञानरूपत्वादीश्वरो व्यवहारप्रापकत्वाद्विद्वाने वाऽत्र गृह्ते (प्रावृतम्) समन्ताद्वर्तन्ते यस्मिन् तमीश्वराज्ञापालनमुपदेशप्रकाशनं वा (अनु) पश्चादर्थे (प्रा) अभ्यर्थे (वर्त्ते) स्पष्टार्थः ॥ अयं मंत्र: श० १।९।३।१५-१७ व्याख्यातः ॥ २६ ॥
Essence
[हे जगदीश्वर अथवा विद्वन् ! वा त्वं रचयम्भूरसि]

नैव परमेश्वरस्य विदुषो जीवस्य वा कौचिन्माता पितरौ कदाचित्स्तः, किन्त्वयमेव सर्वस्य माता पिता चारित्त ।

[श्रेष्ठः, वर्चोदा असि]

तथा—नैतस्मात् कश्चिदुत्तमः प्रकाशहेतुर्विद्याप्रदो वा पदार्थोऽस्ति ।

[अहं सूर्यस्य तवावृतम्=आज्ञापालनमन्ववर्त्ते]

अतः सर्वैर्मनुष्यैरस्यैवाज्ञायामनुयर्तनीयम् ॥२।२६ ॥
Subject
अथ सूर्य्यशब्देनेश्वरविद्वदर्थावुपदिश्येते ॥
Meaning of Anvay
हे जगदीश्वर! विद्वन् वा! त्वं श्रेष्ठः अतिशयेन प्रशस्तो रश्मिः प्रकाशकः प्रकाशमयो वा स्वयम्भूः स्वयं भवतीत्यनादिस्वरूपः असि (अस्ति वा), वर्च्चोदाः वर्च्चो=विद्यां दीप्तिं वा ददातीति असि भवसि, त्वं मे मह्यं वर्च्चो विज्ञानं प्रकाशनं वा देहि (ददाति वा)।

अहं सूर्यस्य चराचरस्याऽऽत्मनो जगदीश्वरस्य विदुषो जीवस्य वा तव आवृतम्=आज्ञा-पालनं समन्ताद्वर्त्तन्ते यस्मिन् तमीश्वराऽऽज्ञापालनमुपदेशप्रकाशनं वा अनु+आ+वर्त्ते पश्चादाभिमुख्येन [वर्तमानो भवेयम्]  ॥२ । २६ ॥
Meaning of Essence
स्वयम्भूः=परमेश्वरो विद्वान् जीवो वा। यस्य कौचिन्मातापितरौ न स्तः, किन्त्वमेव सर्वस्य माता पिता चास्ति ॥ श्रेष्ठः=तस्मात्कश्चिदुत्तमः (ई०) । वर्चोदा=प्रकाशहेतुर्विद्याप्रदो वा (ई०। विद्वान्)
Special
वामदेवः । ईश्वर:=ईश्वर और विद्वान्। उष्णिक् । ऋषभः ॥