Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 24

34 Mantra
2/24
Devata- त्वष्टा देवता Rishi- वामदेव ऋषिः Chhand- विराट् त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳ शि॒वेन॑। त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम्॥२४॥

सम्। वर्च॑सा। पय॑सा। सम्। त॒नूभिः॑। अग॑न्महि। मन॑सा। सम्। शि॒वेन॑। त्वष्टा॑। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑। वि। द॒धा॒तु॒। रायः॑। अनु॑। मा॒र्ष्टु॒। त॒न्वः᳕। यत्। विलि॑ष्ट॒मिति॒ विऽलि॑ष्टम् ॥२४॥

Mantra without Swara
सँवर्चसा पयसा सन्तनूभिरगन्महि मनसा सँ शिवेन । त्वष्टा सुदत्रो विदधातु रायोनुमार्ष्टु तन्वो यद्विलिष्टम् ॥

सम्। वर्चसा। पयसा। सम्। तनूभिः। अगन्महि। मनसा। सम्। शिवेन। त्वष्टा। सुदत्र इति सुऽदत्रः। वि। दधातु। रायः। अनु। मार्ष्टु। तन्वः। यत्। विलिष्टमिति विऽलिष्टम्॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) सम्यगर्थे (वर्चसा) वर्चन्ते दीप्यन्ते सर्व पदार्था यस्मिन् वेदाध्ययने तेन (पयसा) पयन्ते विजानन्ति सर्वान् पदार्थान् येन ज्ञानेन तेन (सम्) संधानार्थे (तनूभिः) तन्वते सुखानि कर्माणि च यासु ताभिः (अगन्महि) प्राप्नुमः। गमधातोर्लुङि उत्तमबहुवचने। मंत्रेघसह्वरणश० ॥अ॰ २।४। ६० ॥ अनेन च्लेर्लुक। म्वोश्च ॥ ८।२। ६५ ॥ अनेन मकारस्य नकारादेशः । अत्र लडर्थे लङ् (मनसा) मन्यन्ते ज्ञायन्ते सर्व व्यवहारा येनान्तःकरणेन तेन (सम्) मिश्रीभावे (शिवेन) सर्वसुखनिमित्तेन (त्वष्टा) त्वक्षति तनूकरोति दुःखानि प्रलये सर्वान् पदार्थान् छिनत्ति वा स जगदीश्वरः (सुदत्रः) सुष्ठु सुखं ददातीति सः (विदधातु) विधानं करोतु (रायः) विद्याचक्रवर्त्तिराज्यश्रियादीनि धनानि (अनु) पश्चादर्थे (मार्ष्ट) शोधयतु (तन्वः) शरीरस्य (यत्) यावत् (विलिष्टम्) परिपूर्णम् । अत्र विरुद्धार्थे विशब्दः । अयं मंत्रः श० १।९  ।३।६ व्याख्यातः ॥ २४ ॥
Essence
[सुदत्र...ईश्वरः कृपयाऽस्मभ्यं रायः संविदधातु, वयं यस्य कृपया वर्चसा, पयसा, मनसा, शिवेन, तनूभिश्च सह रायः समगन्महि]

मनुष्यैः सर्वकामप्रदस्येश्वरस्याज्ञापालन--सम्यक् पुरुषार्थाभ्यां विद्याध्ययनं, विज्ञानं, शरीरबलमनःशुद्धिः, कल्याणसिद्धिः, सर्वोत्तमश्रीप्राप्तिश्च सदैव कार्या।

[यदस्माकं तन्वो विलिष्टं तत् समनुमार्ष्टुं]

तथा--सर्वे व्यवहाराः पदार्थाश्च नित्यं शुद्धा भावनीयाः ॥ २ । २४ ॥
Subject
तेन यज्ञेन वयं कि कि प्राप्नुम इत्युपदिश्यते ॥
Meaning of Anvay
वयं यस्य कृपया वर्चसा वर्चन्ते=दीप्यन्ते सर्वे पदार्था यस्मिन् वेदाध्ययने तेन पयसा पयन्ते=विजानन्ति सर्वान् पदार्थान् येन ज्ञानेन तेन मनसा मन्यन्ते=ज्ञायन्ते सर्वे व्यवहारा येनाऽन्तःकरणेन तेन शिवेन सर्वसुखनिमित्तेन तनूभिः तन्वते सुखानि कर्माणि च यासु ताभिः च सहः रायः विद्याचक्रवर्त्तिराज्यक्रियादीनि धनानि सम्+अगन्महि सम्यक् प्राप्नुमः ।

सुदत्रः सुष्ठ सुख ददातीति स त्वष्टा=ईश्वरः त्वक्षति=तनूकरोति दुःखानि प्रलये सर्वान् पदार्थान् छिनत्ति वा स जगदीश्वरः कृपयाऽस्मभ्यं रायः विद्याचक्रवर्त्तिराज्यक्रियादीनि धनानि सम्+वि+दधातु ससन्धानं विधानं करोतु ।

यद् यावद् अस्माकं तन्वः शरीरस्य विलिष्टं परिपूर्णं तत्समनुमार्ष्टुं मिश्रीभावेन पश्चात् शोधयतु ॥ २ । २४ ॥
Meaning of Essence
वर्चसा=विद्याध्ययेन। पयसा=विज्ञानेन। मनसा=मनःशुद्धया । शिवेन=कल्याणसिद्धया। तनूभिः=शरीरबलशुद्धया। राय:=सर्वोत्तमश्रियः॥
Special
वामदेवः । त्वष्टा=ईश्वरः। विराट् त्रिष्टुप् । धैवतः ॥