Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 23

34 Mantra
2/23
Devata- प्रजापतिर्देवता Rishi- वामदेव ऋषिः Chhand- निचृत् बृहती, Swara- मध्यमः
Mantra with Swara
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति॒। पोषा॑य॒ रक्ष॑सां भा॒गोऽसि॥२३॥

कः। त्वा॒। वि। मु॒ञ्च॒ति॒। सः। त्वा॒। वि। मु॒ञ्च॒ति॒। कस्मै॑। त्वा॒। वि। मु॒ञ्च॒ति॒। तस्मै॑। त्वा॒। वि। मु॒ञ्च॒ति॒। पोषा॑य। रक्ष॑साम्। भा॒गः। अ॒सि॒ ॥२३॥

Mantra without Swara
कस्त्वा विमुञ्चति स त्वा विमुञ्चति कस्मै त्वावि मुञ्चति तस्मै त्वा विमुञ्चति । पोषाय रक्षसाम्भागो सि ॥

कः। त्वा। वि। मुञ्चति। सः। त्वा। वि। मुञ्चति। कस्मै। त्वा। वि। मुञ्चति। तस्मै। त्वा। वि। मुञ्चति। पोषाय। रक्षसाम्। भागः। असि॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कः) सुखकारी यजमानः (त्वा) तम् (वि) विविधार्थे क्रियायोगे। व्यपेत्येतस्य प्रातिलोम्यं प्राह ॥ निरु० १ । ३ ॥ (मुञ्चति) त्यजति (सः) यज्ञः (त्वा) त्वाम् (वि) विशेषार्थे (मुञ्चति) त्यजति (कस्मै) प्रयोजनाय (त्वा) त्वाम् (वि) विविक्तार्थे (मुञ्चति) प्रक्षिपति (तस्मै) यतः सर्वसुखप्राप्तिर्भवेत्तस्मै (त्वा) पदार्थसमूहम् (वि) विशिष्टार्थे (मुञ्चति) त्यजति (पोषाय) पुष्यन्ति प्राणिनो यस्मिन् व्यवहारे तस्मै (रक्षसाम्) दुष्टानाम् (भागः) भजनीयः (असि) भवति ॥ अयं मंत्रः श० १।९।२। ३३-३५ व्याख्यातः ॥ २३ ॥
Essence
[यश्च यजं विमुञ्चति [त्वा]=तं विमुञ्चति़ स:=यज्ञं सु परमेश्वरो विमुञ्चति]

यो मनुष्य ईश्वरेण वेदद्वाराऽऽज्ञापितं व्यवहारं त्यजति स सर्वैः सुखैर्हीनो भूत्वा दुष्टैः पीडितः सन् सर्वदा दुःखी भवति ।

केनचित् कचित् प्रति पृष्टयो यज्ञं त्यजति तस्मै कि भवतीति? स आह--ईश्वरोऽर्पितं त्यजतीति।

स पुनराह--ईश्वरः कस्मै प्रयोजनाय तं त्यजतीति, स ब्रूते तस्मै दुःखमेव स्यादित्यस्मै ।

[पोषाय त्वा=तं विमुञ्चति]

यश्चेश्वराज्ञां पालयति स सुखैः पोषितुमर्हति ।

[यः पदार्थः सर्वोपकारे यज्ञे न प्रयुज्यते, स रक्षसां भागोऽसि=भवति]

यश्च त्यजति स एव राक्षसो भवतीति॥
Subject
अग्नौ द्रव्यं किमर्थं प्रक्षिप्यत इत्युपदिश्यते ॥
Meaning of Anvay
कः सुखकारी यजमानः मनुष्यः त्वा=तं यज्ञं वि+मुञ्चति विविधतया त्यजति ? कोऽपि नेत्यर्थः। यश्च यज्ञं वि+मुञ्चति विशेषेण त्यजति, [त्वा]=तं सः=यज्ञः परमेश्वरो (यज्ञः) विमुञ्चति ।

यज्ञकर्ता कस्मै=प्रयोजनाय [त्वा]=तं त्वां पदार्थसमूहमग्नो वि+मुञ्चति विविक्ततया प्रक्षिपति ? [तस्मै] =यतः सर्वसुखप्राप्तिर्भवेत् तस्मै, पोषाय पुष्यन्ति प्राणिनो यस्मिन् व्यवहारे तस्मै त्वा=तं पदार्थसमूह वि-मुञ्चति विशिष्टतया त्यजति । किन्तु यः पदार्थः सर्वोपकारे यज्ञेन प्रयुज्यते, स रक्षसां दुष्टानां भागो भजनीयः असि=भवति ॥२। २३ ॥
Special
वामदेवः । प्रजापतिः=ईश्वरः। निचृद्बृहतीः । मध्यमः ॥