Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 21

34 Mantra
2/21
Devata- प्रजापतिर्देवता Rishi- वामदेव ऋषिः Chhand- भूरिक् ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
वे॒दोऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भूयाः॑। देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त। मन॑सस्पतऽइ॒मं दे॑व य॒ज्ञꣳ स्वाहा॒ वाते॑ धाः॥२१॥

वे॒दः। अ॒सि॒। येन॑। त्वम्। दे॒व॒। वे॒द॒। दे॒वेभ्यः॑। वे॒दः। अभ॑वः। तेन॑। मह्य॑म्। वे॒दः॒। भू॒याः॒। देवाः॑। गा॒तु॒वि॒द॒ इति॑ गातुऽविदः। गा॒तुम्। वि॒त्त्वा। गा॒तुम्। इ॒त॒। मन॑सः। प॒ते॒। इ॒मम्। दे॒व॒। य॒ज्ञम्। स्वाहा॑। वाते॑। धाः॒ ॥२१॥

Mantra without Swara
वेदोसि येन त्वन्देव वेद देवेभ्यो वेदो भवस्तेन मह्यँवेदो भूयाः । देवा गातुविदो गातुँवित्त्वा गातुमित । मनसस्पतऽइमन्देव यज्ञँस्वाहा वाते धाः ॥

वेदः। असि। येन। त्वम्। देव। वेद। देवेभ्यः। वेदः। अभवः। तेन। मह्यम्। वेदः। भूयाः। देवाः। गातुविद इति गातुऽविदः। गातुम्। वित्त्वा। गातुम्। इत। मनसः। पते। इमम्। देव। यज्ञम्। स्वाहा। वाते। धाः॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वेदः) वेत्ति चराचर जगत् स जगदीश्वरः । विदन्ति येन स ऋग्वेदादिर्वा (असि) भवसि वा (येन) विज्ञानेन वेदेन वा (त्वम्) (देव) शुभगुणदातः (वेद) जानासि वेत्ति वा (देवेभ्यः) विद्वद्भ्यः (वेदः) वेदयिता (अभवः) भवसि (तेन) विज्ञानप्रकाशनेन (मह्यम्) विज्ञान जिज्ञासवे (वेदः) ज्ञापकः (भूयाः) (देवाः) विद्वांसः (गातुविदः) गीयते स्तूयतेऽनया सा गातुः स्तुतिस्तस्या विदो वक्तारः । कमिमनिजनि० ॥ उ० १ । ७३ ॥ अनेन गास्तुतावित्यस्मात् तुः प्रत्ययः (गातुम्) गीयते ज्ञायते येन स गातुर्वेदस्तम् । गातुरिति पदनामसु पठितम् ॥ निघं० ४ । १॥ अनेन ज्ञानार्थो गृह्यते (वित्त्वा) लब्ध्वा (गातुम्) गीयते शब्द्यते यस्तं यज्ञम् (इत) प्राप्नुत (मनसः) विज्ञानस्य (पते) पालक (इमम्) प्रत्यक्षमनुष्ठितमनुष्ठातव्यं वा (देव) सर्वजगत्प्रकाशक (यज्ञम्) क्रियाकाण्डजन्यं संसारम् (स्वाहा) सुष्ठु आहुतं हविः करोत्यनया सा (वाते) वायौ (धाः) धापय धापयति वा । अत्र सर्वत्र पक्षान्तरे व्यत्ययेन प्रथमः । बहुलं छन्दस्यमाङ्गेऽपीत्मडभावः । अयं मंत्रः श० १।९।२ । २३–२८ व्याख्यातः ॥ २१ ॥
Essence
[हे गुणविदो देवा ! भवन्तो येन वेदेन सर्वाविद्मा विदन्ति, तेन यूयं गातुं वित्त्वा गातुमित, हे मनसस्पते ! देव ! त्वमिमं यज्ञं वाते धाः]

हे विद्वांसो मनुष्या ! यूयं येन सर्ववेत्रा' वेदविद्या प्रकाशिता तमेवो पास्यं विदित्वा क्रियाकाण्डमनुष्ठाय सर्वहितं सम्पादयत । नैव वेदविज्ञानेन तत्रोक्तविधानानुकूलस्यानुष्ठानेन च विना मनुष्याणां कदाचित् सुखं सम्भवति ।

 

[हे देवा ! तमिमं मनसस्पतिं परमेश्वरमेव देवं नित्यमुपासीध्वम्]

   वेदविद्यया सर्वसाक्षिणमीश्वरं देवं सर्वतो व्यापकं मत्वैव नित्यधर्मस्यानुष्ठातारो भवतेति ॥२।२१॥
Subject
स जगदीश्वरः कीदृशोऽस्तीत्युपदिश्यते॥
Meaning of Anvay
हे देव!=जगदीश्वर शुभगुणदात: ! येन विज्ञानेन वेदेन वा त्वं वेदो वेत्ति चराचरं जगत् स जगदीश्वरः, विदन्ति येन स ऋग्वेदादिर्वा असि भवसि सर्वं च वेद जानासि (वेत्ति वा)।

येन विज्ञानेन वेदेन वा च त्वं वा देवेभ्यो विद्वद्भ्यो वेदो वेदयिता अभवो भवसि, तेन विज्ञानप्रकाशेन त्वं मह्यं विज्ञानं जिज्ञासवे अपि वेदो ज्ञापको भूयाः॥२१॥

 

हे गातुविदः ! गीयते स्तूयतेऽनया सा गातुः=स्तुतिस्तस्या विदो वित्तारः ! देवाः ! विद्वांसः! भवन्तो येन वेदेन सर्वा विद्या विदन्ति, तेन यूयं गातुं गीयते=ज्ञायते येन स गातुर्वेदस्तं वित्त्वा लब्ध्वा गातुं गीयते=शब्द्यते यस्तं यज्ञम् इत प्राप्नुत।

हे मनसः विज्ञानस्य पते ! पालक ! देव ! सर्वजगत्प्रकाशक ! त्वमिमं प्रत्यक्षमनुष्ठितमनुष्ठातव्यं यज्ञं क्रियाकाण्डजन्यं संसारं वाते वायौ धाः धापय (धापयति वा) स्वाहा सुष्ठु आहुत हविः करोत्यनया सा।

हे देवाः ! तमिमं मनसस्पति परमेश्वरमेव देवं नित्यमुपासीध्वम् ॥ २ । २१ ॥
Meaning of Essence
गातुम्=उपास्यम् । यज्ञम्=क्रियाकाण्डम् । मनसस्पतिम्=सर्वसाक्षिणम् ॥
Special
वामदेवः। प्रजापतिः=ईश्वरः॥ भूरिग्ब्राह्मी बृहती। मध्यमः ॥