Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 20

34 Mantra
2/20
Devata- अग्निसरस्वत्यौ देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दुर॑द्म॒न्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु। सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑॥२०॥

अग्ने॑। अ॒द॒ब्धा॒यो॒ऽ इत्य॑दब्धऽआ॒यो। अ॒शी॒त॒म॒। अ॒शि॒त॒मेत्य॑शिऽतम। पा॒हि। मा॒। दि॒द्योः। पा॒हि। प्रसि॑त्या॒ इति॒ प्रऽसि॑त्यै। पा॒हि। दुरि॑ष्ट्या॒ इति॒ दुःऽइ॑ष्ट्यै। पा॒हि। दु॒र॒द्म॒न्या इति॑ दुःऽअद्म॒न्यै॑। अ॒वि॒षम्। नः॒। पि॒तुम्। कृ॒णु॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। योनौ॑। स्वाहा॑। वाट्। अ॒ग्नये॑। सं॒वे॒शप॑तय॒ इति॑ संवे॒शऽप॑तये। स्वाहा॑। सर॑स्वत्यै। य॒शो॒भ॒गिन्या॒ इति॑ यशःऽभ॒गिन्यै॑। स्वाहा॑ ॥२०॥

Mantra without Swara
अग्ने दब्धायो शीतम पाहि मा दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्याऽअविषन्नः पितुङ्कृणु सुषदा योनौ स्वाहा वाडग्नये सँवेशपतये स्वाहा सरस्वत्यै यशोभगिन्यै स्वाहा ॥

अग्ने। अदब्धायोऽ इत्यदब्धऽआयो। अशीतम। अशितमेत्यशिऽतम। पाहि। मा। दिद्योः। पाहि। प्रसित्या इति प्रऽसित्यै। पाहि। दुरिष्ट्या इति दुःऽइष्ट्यै। पाहि। दुरद्मन्या इति दुःऽअद्मन्यै। अविषम्। नः। पितुम्। कृणु। सुषदा। सुसदेति सुऽसदा। योनौ। स्वाहा। वाट्। अग्नये। संवेशपतय इति संवेशऽपतये। स्वाहा। सरस्वत्यै। यशोभगिन्या इति यशःऽभगिन्यै। स्वाहा॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) जगदीश्वर ! भौतिको वा (अदब्धायो) अदब्धहिंसितमायुर्यस्मात् तत्संबुद्धौ अदब्धायुर्वा (अशीतम) अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितस्तत्संबुद्धौ स वा । अन्येषामपि दृश्यत इति दीर्घः (पाहि) रक्ष पाति वा (मा) माम् (दिद्योः) अतिदुःखात् । दिवु धातोः 'कुर्मश्च' । उ० ॥ १ ॥ २२ ॥ इति चकारेण कुप्रत्ययो बाहुलकाद्वकारलोपश्च (पाहि) रक्ष रक्षति वा (प्रसित्यै) प्रकृष्टा चासौ सितिर्बन्धनं यस्यां तस्याः । अत्र पञ्चम्यर्थे चतुर्थी (पाहि) पाति वा (दुरिष्ट्यै ) दुष्टा इष्टिर्यजनं यस्यां तस्याः । अत्रापि पंचम्यर्थे चतुर्थी (पाहि) पाति वा (दुरद्मन्यै) दुष्टा अद्मनी अनदक्रिया यस्यां तस्याः । अत्रापि पंचम्यर्थे चतुर्थी (अविषम् ) विषादिदोषरहितम् (नः) अस्माकम् (पितुम्) अन्नम् । पितुरित्यन्ननामसु पठितम् ॥ निघं० २ । ७ ॥ (कृणु) कुरु करोति वा । अत्र सर्वत्र पक्षे लडर्थे लोट् (सुषदा) सुखेन सीदन्ति यस्यां तस्याम् । अत्र सुपां सुलुगिति ङेः स्थान आकारादेशः (योनौ) युवन्ति यस्यां सा योनिर्गृहं जन्मान्तरं वा तस्याम् । योनिरिति गृहनामसु पठितम् ॥ निघं० ३ । ४ ॥ (स्वाहा) सु आहानया सा (वाट्) क्रियार्थे । (अग्नये) परमेश्वराय भौतिकाय वा (संवेशपतये) सम्यक् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पति: पालकस्तस्मै (स्वाहा) सुष्ठु आहुतं करोति यस्यां सा (सरस्वत्यै) सरन्ति जानन्ति येन तत् सरो ज्ञानं तत्प्रशस्तं विद्यते यस्यां वाचि तस्य । सरस्वतीति वाङ्नामसु पठितम् ॥ निघं० १ । ११ ॥ (यशोभगिन्यै) यशांसि सत्यवचनादीनि कर्माणि भजितुं शीलं यस्यास्तस्यै (स्वाहा) स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा ॥ अयं मन्त्रः श० १ । ९ । २ । २० व्याख्यातः ॥ २० ॥
Essence
[हे...अग्ने=जगदीश्वर ! त्वं....[मा]=मां दिद्यो:=प्रमादाद् दुःखात् पाहि, प्रसित्यै पाहि, दुरन्द्मयै पाहि]

अत्र श्लेषालङ्कारः ॥ मनुष्यैर्यः सर्वथा सर्वस्माद् दुःखाद् रक्षक उत्तम जन्म निमित्त कर्माज्ञापक, उत्तमभोगप्रदाता जगदीश्वरोऽस्ति, स एव सदा सेवनीयः।


भक्तूं।


[हे जगदीश्वर ! योऽयं भवता'अशीतमः=अग्निनिर्मितः स....[मा]=मां [पाहि]=पाति,....नः=

अस्माकमविषं पितुं [कृणु]--करोति ]

तेन स्वसृष्टौ सूर्य विद्युत् प्रत्यक्षरूपेण योऽयमग्निः प्रकाशितः सोऽपि सम्यक् विद्योपकारे संयोजितः सन् सर्वथा रक्षणोत्तमभोगहेतुर्भवति ।

[वयं...यशोभगिन्यै सरस्वत्यै स्वाहा कुर्मः]

यया कीर्तिहेतुभूतया सत्यलक्षणया वेदरूपया वाचोत्तमानि जन्मानि सर्वपदार्थेभ्यः उत्कृष्टा विविधा विद्या च प्रकाशिता भवति, सा सदैव स्वीकर्त्तव्या, स्वीकारयितव्या वेति ।

[अनुवृत्तिमाह--]

अत्र नमो यज्ञ इति पदद्वयं पूर्वस्मान्मन्त्रादाकार्षितम् ।

[मन्त्रसंगतिमाह--]

पूर्वमन्त्रोक्तानां मनुष्यैरनुष्ठितानां कर्मणां फलमनेनोक्तमिति वेद्यम् ॥ २ । २०॥
Subject
अथ सोऽग्निः कीदृशः किमर्थः प्रार्थनीयश्चेत्युपदिश्यते ॥
Meaning of Anvay
हे अदब्धायो ! अदब्धहिंसितमायुर्यस्मात् तत्सम्बुद्धौ! अशीतम! अश्नुते व्याप्नोति चराऽचरं यज्ञं सोऽतिशयितस्तत्सम्बुद्धौ! अग्ने!=जगदीश्वर ! त्वं यज्ञं दुरिष्ट्यै दुष्टा इष्टिर्यजनं यस्यां तस्याः पाहि रक्ष (पाति वा), [मा]=मां दिद्यो:=प्रमादाद् दुःखाद् अतिदुःखात् पाहि रक्ष, प्रसित्यै प्रकृष्टा चाऽसौ सितिर्बन्धनं यस्यां तस्याः पाहि (पाति वा), दुरद्मन्यै दुष्टा अद्मनी=अदनक्रिया यस्यां तस्याः पाहि रक्ष (पाति वा)।

नः अस्माकमविषं विषाऽऽदिदोषरहितं पितुम् अन्नं कृणु कुरु ।

नः=अस्मान् [सुषदा]=सुषदायां सुखेन सीदन्ति यस्यां तस्यां योनौ युवन्ति यस्यां सा योनिगृहं जन्माऽन्तरं वा तस्यां स्वाहा सु आहाऽनया सा वाट्=सत्क्रियायां च कृणु कुरु ।

वयं यशोभगिन्यै यशांसि=सत्यवचनादीनि कर्माणि भजितुं' शीलं यस्यास्तस्यै स्वाहा स्वकीय पदार्थ प्रत्याह यस्यां क्रियायां सा, सरस्वत्यै सरन्ति=जानन्ति येन तत्सरो ज्ञानं तत्प्रशस्तं विद्यते यस्यां वाचि तस्यै स्वाहा सुष्ठु आहुतं करोति यस्यां सा।

संदेशपतये सम्यग् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतिः पालकस्तस्मै अग्नये तुभ्यं परमेश्वराय (भौतिकाय वा) स्वाहा सुष्ठु आहुतं करोति यस्यां सा, नमश्च नित्यं कुर्मः । इत्येकः ॥

हे जगदीश्वर! योऽयं भवता [अदब्धायो]=अदब्धायुः अदब्धहिसितमायुर्यस्मात् [अशीतम्]=अशीतमः= अग्निः अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितः निर्मितः स यज्ञं [दुरिष्ट्य]=दुरिष्ट्याः दुष्टा इष्टिर्यजनं यस्यां तस्याः [पाहि]=पाति, [मा]=मां दिद्योः अतिदुःखात् [पाहि]=पाति रक्षति, [प्रसित्य] =प्रसित्याः प्रकृष्टा चाऽसौ सितिर्बन्धनं यस्यां तस्याः [पाहि]=पाति, [दुरद्मन्ये]=दुरद्मन्याः दुष्टा अद्मनी=अदनक्रिया यस्यां तस्याः [पाहि]=पाति ।

नः अस्माकमविषं विषादिदोषरहितं पितुम् अन्नं [कृणु]=करोति।

[सुषदा]=सुषदायां सुखेन सीदन्ति यस्यां तस्यां योनौ युवन्ति यस्यां सा योनिर्गहं जन्माऽन्तरं वा तस्यां स्वाहा सु आहाऽनया सा, वाट्=सत्क्रियायां च हेतुरस्ति, वयं तस्मै संवेशपतये सम्यग् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतिः पालकस्तस्मै अग्नये भौतिकाय स्वाहा सुष्ठु आहुतं करोति यस्यां सा,

यशोभगिन्यै यशांसि सत्यवचनादीनि कर्माणि भजितुं' शीलं यस्यास्तस्यै सरस्वत्यै सरन्ति जानन्ति येन तत्सरो ज्ञानं, तत्प्रशस्तं विद्यते यस्यां वाचि तस्यै स्वाहा स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा कुर्मः। इति द्वितीयः ॥ २ । २० ॥
Meaning of Essence
दिद्यो:=सर्वस्माद् दुःखात् । अशीतम्=सूर्यविद्युत् प्रत्यक्षरूपोऽग्निः । यशोभगिन्यै= कीर्तिहेतुभूताय । सरस्वत्यै=सत्य लक्षण--वेद रूप—वाचे ।
Special
परमेष्ठी प्रजापतिः । अग्निसरस्वत्यौ=ईश्वरो वेदवाणी च ॥ भुरिग्ब्राह्मीत्रिष्टुप् । धैवतः ॥