Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 19

34 Mantra
2/19
Devata- अग्निवायू देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातꣳ सु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम्। य॒ज्ञ नम॑श्च त॒ऽउप॑ च य॒ज्ञस्य॑ शि॒वे सन्ति॑ष्ठस्व॒ स्विष्टे॒ मे॒ संति॑ष्ठस्व॥१९॥

घृ॒ताची॑। स्थः॒। धुर्य्यौ॑। पा॒त॒म्। सु॒म्ने। स्थः॒। सु॒म्ने। मा॒। ध॒त्त॒म्। यज्ञ॑। नमः॑। च॒। ते॒। उप॑। च॒। य॒ज्ञस्य॑। शिवे॑। सम्। ति॒ष्ठ॒स्व॒। स्विष्टे॒ इति॑ सुऽइ॑ष्टे। मे॒। सम्। ति॒ष्ठ॒स्व॒ ॥१९॥

Mantra without Swara
घृताची स्थो धुर्या पातँ सुम्ने स्थः सुम्ने मा धत्तम् । यज्ञ नमश्च तऽउप च यज्ञस्य शिवे सन्तिष्ठस्व स्विष्टे मे सन्तिष्ठस्व ॥

घृताची। स्थः। धुर्य्यौ। पातम्। सुम्ने। स्थः। सुम्ने। मा। धत्तम्। यज्ञ। नमः। च। ते। उप। च। यज्ञस्य। शिवे। सम्। तिष्ठस्व। स्विष्टे इति सुऽइष्टे। मे। सम्। तिष्ठस्व॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(घृताची) घृतमुदकमंचत इति घृताची अग्निवाय्वोर्धारणकर्षणक्रिये। अत्र पूर्वसवर्णादेशः । धृतमित्युदत्कनामसु पठितम् ॥ निघं० १ । १२ ॥ (स्थः) स्तः । अत्र सर्वत्र पुरुषव्यत्ययः (धुर्यौ) धुरं यज्ञस्याग्रं मुख्याङ्गं वहतस्तौ । अत्र धुरी यङ्ढको' ॥ अ० ४ । ४ । ७७ ॥ इति यत्प्रत्ययः (पातम्) रक्षतः (सुम्ने) सुखकारिके उक्ते क्रिये । सुम्नमिति सुखनामसु पठितम् ॥ निघं० ३।६॥ (स्थः) भवतः (सुम्ने) अत्युत्कृष्टे सुखे (मा) मां यज्ञानुष्ठातारम् (धत्तम्) धारयतः । (यज्ञ) इज्यते सर्वैर्जनैः स यज्ञ ईश्वरस्तत्सम्बुद्धौ, क्रियासाध्यो वा अत्रान्त्ये पक्षे सुपां सुलुगिति सोर्लुक् (नमः) नम्रीभावार्थे (च) समुच्चये (ते) तुभ्यं तस्य वा (उप) समीप्ये क्रियायोगे । उपेत्युपजनं प्राह ॥ निरु० १ ॥ ३ ॥ (च) पश्चादर्थे (यजस्य) ज्ञानाक्रियाभ्यामनुष्ठेयस्य (शिवे) कल्याणसाधिके ॥ सर्वनिधृष्व० उ० ॥ १। १५१ ॥ इत्ययं सिद्धः (संतिष्ठस्व) संतिष्ठते । अत्र लडर्थे लोट् (स्विष्टे) शोभनमिष्टं याभ्यां ते (मे) मम (संतिष्ठस्व) सुष्ठुसाधने स्थिरो भव, संतिष्ठते वा ॥ अयं मंत्रः श० १। ८ । ३ । २७ व्याख्यातः ॥ १९ ॥
Essence
[यावग्निवायू घृताची, सर्वं जगत् पातं=रक्षतः, सुम्ने, यज्ञस्य धुर्य्यौ.....सुम्ने  मा=मां धत्तम्...शिख उपसंतिष्ठेते]

अत्र लुप्तोपमालङ्कारः ॥ ईश्वरोऽभिवदति--हे मनुष्या ! यूयमेतयो रसच्छेदकधारकयोर्जगत्पालनहेत्वोः, सुखकारिणोः, क्रियाकाण्डस्य निमित्तयोरूर्ध्वतिर्यग्गमनशीलयोरग्नि- वाय्वोः सकाशात् कार्याणि साधित्वा' सुखेषु संस्थितिं कुरुत।

[यज्ञो नमश्च]

यथाऽहं यज्ञमनुष्ठाय [स्विष्टे]=सुखे शोभनमिष्टं याभ्यां ते संतिष्ठे तथा त्वमपि तत्र संतिष्ठस्व सुष्ठु साधने स्थिरो भव (संतिष्ठते वा) ॥ २ । १९ ॥

१. साधयित्वा ।

महायज्ञापालनं मां च सततं नमस्कुरुत ।

[मन्त्रसंगतिमाह-]

पूर्वमन्त्रोक्तैरुपकारैः परमं सुखं भवतीत्यनेनोक्तमिति ॥२।१९॥
Subject
अथोक्तेन यज्ञेन किं भवतीत्युपदिश्यते ॥
Meaning of Anvay
यावग्निवायू यज्ञस्य ज्ञानक्रियाभ्यामनुष्ठेयस्य धुर्य्यौ धुरं=यज्ञस्याऽग्रं मुख्याऽङ्गं वहतस्तौ सुम्ने सुखकारिके उक्ते क्रिये स्थः स्तः, घृताची घृतमुदकमञ्चत इति घृताची अग्निवाय्वोर्धारणाऽऽकर्षणक्रिये स्थो भवत, सर्वं जगत् पातम् रक्षतस्तौ मया सम्यक् प्रयोजितौ सुम्ने-सुखे अत्युत्कृष्टे सुखे मा=मां (माम् ) यज्ञस्याऽनुष्ठातारं धत्तम्-धारयतः ।

यज्ञ ! इज्यते सर्वैर्जनैः स यज्ञ ईश्वरस्तत्सम्बुद्धौ ! क्रियासाध्यो वा नमः नम्रीभावः च ये यथा ते=तव तुभ्यं तस्य वा शिवे कल्याणसाधिके उपसंतिष्ठेते, मे=मम अप्येते तथैव संतिष्ठेताम् ।

तस्माद्यथाऽहं तस्य यज्ञस्य ज्ञानक्रियाभ्यामनुष्ठेयस्य अनुष्ठाने संतिष्ठे तथा त्वमप्यत्र सम्+तिष्ठस्व सुष्ठु साधने स्थिरो भव (संतिष्ठते वा)॥२।१९॥
Meaning of Essence
घृताची=रसच्छेदकधारक (अग्निवायू) सुम्ने=सुखकारिणौ। यज्ञस्य=क्रियाकाण्डस्य ।
Special
परमेष्ठी प्रजापतिः । अग्निवायू । भुरिक् पंक्तिः। पंचमः ॥