Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 17

34 Mantra
2/17
Devata- अग्निर्देवता Rishi- देवल ऋषिः Chhand- निचृत् जगती, Swara- निषादः
Mantra with Swara
य प॑रि॒धिं प॒र्य्यध॑त्था॒ऽअग्ने॑ देवप॒णिभि॑र्गु॒ह्यमा॑नः। तं त॑ऽए॒तमनु॒ जोषं॑ भराम्ये॒ष मेत्त्वद॑पचे॒तया॑ताऽअ॒ग्नेः प्रि॒यं पाथो॑ऽपी॑तम्॥१७॥

यम्। प॑रि॒धिम्। परि॒। अध॑त्थाः। अग्ने॑। दे॒व॒। प॒णिभि॒रिति॑ प॒णिऽभिः॑। गु॒ह्यमा॑नः। तम्। ते॒। ए॒तम्। अनु॑। जोष॑म्। भ॒रा॒मि॒। ए॒षः। मा। इत्। त्वत्। अ॒प॒। चे॒तया॑तै। अ॒ग्नेः। प्रि॒यम्। पाथः॑। अपी॑तम् ॥१७॥

Mantra without Swara
यं परिधिम्पर्यधत्थाऽअग्ने देव पाणिभिर्गुह्यमानः । तन्तऽएतमनु जोषम्भराम्येषनेत्त्वदपचेतयाताऽअग्नेः प्रियम्पाथो पीतम् ॥

यम्। परिधिम्। परि। अधत्थाः। अग्ने। देव। पणिभिरिति पणिऽभिः। गुह्यमानः। तम्। ते। एतम्। अनु। जोषम्। भरामि। एषः। मा। इत्। त्वत्। अप। चेतयातै। अग्नेः। प्रियम्। पाथः। अपीतम्॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यम्) एतद् सुणविशिष्टम् (परिधिम्) परितः सर्वतो धीयते यस्मिँस्तम् (पर्यधत्थाः) सर्वतो दधासि दधाति वा । अत्र लडर्थे लङ् पक्षे व्यत्ययश्च (अग्ने) सर्वत्र व्यापकेश्वर ! भौतिको वा (देवपणिभिः) देवानां दिव्यगुणवतामग्निपृथिव्यादीनां विदुषां वा पणयो व्यवहाराः स्तुतयश्च ताभिः (गुह्यमानः) सम्यक् ब्रियमाणः (तम्) परिधिम् (ते) तव (एतम्) यथोक्तम् (अनु) पश्चादर्थे । अन्विति सादृश्यापर भावं प्राह ॥ निरु० १ ॥ ३ ॥ (जोषम्) जुष्यते प्रीत्या सेव्यते तम् (भरामि) धारयामि (एषः) परिधिरहं वा (मा) प्रतिषेधे (इत्) एव (त्वत्) अन्तर्यामिनो जगदीश्वरात्तस्मादग्ने (अप) दूरार्थे (चेतयातै) चेतयेत् । चिती संज्ञाने इति ण्यन्तस्य लेटः प्रथमपुरुषस्यैक रचने प्रयोगाऽयम् (अग्नेः) जगदीश्वरस्य भौतिकस्य वा (प्रियम्) प्रीतिजनकम् (पाथः) पाति शरीरमात्मानं च येन तत्तदन्नम् । अन्ने च ॥ उ० ४ । २०५ ॥ अनेन पातेरन्नेऽसुन्प्रस्ययः थुडागमश्च (अपीतम्) अपि संयोगे । अपीति संसर्ग प्राह ॥

 निरु० १॥ ३ ॥ इतं प्राप्तम् ॥ अयं मंत्रः श० १।८ । ३ । २२ व्याख्यातः ॥ १७ ॥
Essence
[ हे अग्ने=जगदीश्वर ! "देवपाणिभिर्गुह्यमानस्त्त्वं.....परिधिं पर्यधत्थाः=सर्वतो दधासि]

अत्र श्लेषालङ्कारः॥ सर्वैर्मनुष्यैर्यः प्रतिवस्तुषु व्यापकत्वेन धारको, विद्वद्भिः स्तोतव्यः स प्रीत्या नित्यमनुसेवनीयः ।

[अहं [त्वत् ] माऽपचेतयातै=कदाचिद् विरुद्धो मा भवेयम्, प्रिय पाथोऽपीतं...]

यतस्तदाज्ञापालनेन प्रियं सुखं प्राप्नुयुः ।

[हे [अग्ने]=जगदीश्वर ! तव सृष्टौ यः...अग्निर्यं परिधिं जोषं पर्यधत्थाः=सर्वतो दधाति तं...अनुभरामि]

सोऽयमीश्वरेण प्रकाशदाहवेगगुणादिसहितो मूर्त्तद्रव्यानुगतोऽग्नी रचितस्तस्मान्मनुष्यैः कलाकौशलादिषु प्रयोजितादग्नेर्व्यवहाराः संसाधनीयाः ।

[मया' 'प्रियं पाथोऽपीतं--]

 यतः सुखानि सिध्येयुः ।

[मन्त्रसंगतिमाह--]

यत्पूर्वेण मन्त्रेण वृष्ट्यादिसाधकत्वमुक्तं तस्यानेन व्यापकत्वं प्रकाशितमिति संगतिः ॥ २ । १७ ॥
Subject
सोऽग्निः कीदृश इत्युपदिश्यते॥
Meaning of Anvay
हे अग्ने!=जगदीश्वर सर्वत्र व्यापकेश्वर ! एषः परिधिः देवपणिभिः देवानां दिव्यगुणवतां विदुषां पणयो व्यवहारा: स्तुतयश्च ताभि गुह्यमानः सम्यग् व्रियमाणः त्वं यम् एतद् गुणविशिष्टम् एवं यथोक्तं जोषं जुष्यते प्रीत्या सेव्यते तं परिधिं परितः सर्वतो धीयते यस्मिँस्तं पर्य्यधत्थाः=सर्वतो दधासि । तं परिधिम् इद् एव त्वामहमनुभरामि पश्चाद् धारयामि।

अहं [त्वत्] अन्तर्यामिनो जगदीश्वरात् माऽप- चेतयात कदाचिद्विरुद्धो मा भवेयम्,

 मया [ते]=तव अग्ने:=जगदीश्वरस्य सृष्टौ यत् प्रियं प्रीतिजनकं पाथः पाति शरीरमात्मानञ्च येन तत्ततदन्नम् अपीतं संयोगेन प्राप्तं, तस्मादहं मा कदाचिदपचेतयातै। इत्येकः ॥

 हे [अग्ने!] =जगदीश्वर ते=तव सृष्टौ यः [एषः]=अयमहं देवपणिभिः दिव्यगुणवतामग्निपृथिव्यादीनां पणयो व्यवहाराश्च ताभिः गुह्यमानः सम्यग् ब्रियमाण एषः अहम्, अग्निः यं एतद्रुजविशिष्टं परिधिं परितः सर्वतो धीयते यस्मिँस्तं जोषं जुष्यते प्रीत्या सेव्यते तं पर्य्यधत्थाः=सर्वतो दधाति, तं परिधिम् इद् एव तमेषाऽहमनुभरामि पश्चाद् धारयामि, तस्मात् कदाचिन्माऽपचेतयातै चेतयेत् ।

मया यदस्याऽग्नेः भौतिकस्य प्रियं प्रीतिजनकं पाथः पाति शरीरमात्मानञ्च येन उत्ततदन्नम् अपीतं संयोगेन प्राप्तं, तदहं जोषं जुष्यते प्रीत्या सेव्यते तं नित्यमनुभरामि पश्चाद् धारयामि ॥ इति द्वितीयः ॥ २। १७ ॥
Special
देवलः । अग्निः=ईश्वरो भौतिकश्च ॥ निचृद् जगती । निषादः ॥