Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 15

34 Mantra
2/15
Devata- अग्नीषोमौ देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- ब्राह्मी बृहती,निचृत् अतिजगती, Swara- मध्यमः, निषाद
Mantra with Swara
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि। इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि। इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि॥१५॥

अ॒ग्नीषोम॑योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा॒ प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। अ॒ग्नीषोमौ॑। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि। इ॒न्द्रा॒ग्न्योः। उज्जि॑ति॒मित्युत्ऽजि॑तिम्। अनु॑। उत्। जे॒ष॒म्। वाज॑स्य। मा। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। प्र। ऊ॒हा॒मि॒। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। तम्। अप॑। नु॒द॒ता॒म्। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। वाज॑स्य। ए॒न॒म्। प्र॒स॒वेनेति॑ प्रऽस॒वेन॑। अप॑। ऊ॒हा॒मि॒ ॥१५॥

Mantra without Swara
अग्नीषोमयोरुज्जितिमनूज्जेषँ वाजस्य मा प्रसवेन प्रोहामि । अग्नीषोमौ तमपनुदताँ यो ऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मो वाजस्यैनं प्रसवेनापोहामि । इन्द्राग्न्योरुज्जितिमनूज्जेषँ वाजस्य मा प्रसवेन प्रोहामि । इन्द्राग्नी तमप नुदताँ योस्मान्द्वेष्टि यञ्च वयन्द्विष्मो वाजस्यैनम्प्रसवेनापोहामि ॥

अग्नीषोमयोः। उज्जितिमित्युत्ऽजितिम्। अनु। उत्। जेषम्। वाजस्य। मा प्रसवेनेति प्रऽसवेन। प्र। ऊहामि। अग्नीषोमौ। तम्। अप। नुदताम्। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। वाजस्य। एनम्। प्रसवेनेति प्रऽसवेन। अप। ऊहामि। इन्द्राग्न्योः। उज्जितिमित्युत्ऽजितिम्। अनु। उत्। जेषम्। वाजस्य। मा। प्रसवेनेति प्रऽसवेन। प्र। ऊहामि। इन्द्राग्नीऽइतीन्द्राग्नी। तम्। अप। नुदताम्। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। वाजस्य। एनम्। प्रसवेनेति प्रऽसवेन। अप। ऊहामि॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नीषोमयोः) अग्निश्च सोमश्च तयोः प्रसिद्धाग्निचन्द्रलोकयोः । अत्र 'ईदग्नेः सोमवरुण्योः॥ अ० ६ । ३ । २७ ॥ अनेन देवताद्वन्द्वसमासेऽग्नेरीकारादेशः (उज्जितिम्) जयत्यनया सा जितिरुत्कृष्टा चासौ जितिश्च तामुत्कृष्टं विजयम् (अनु) पश्चाद्भावे (उत्) उत्कृष्टार्थे (जेषम्) जयं कुर्याम् । अत्र लिङर्थे लुङडभावो वृद्ध्यभावश्च (वाजस्य) युद्धस्य (मा) मां विजेतारम् (प्रसवेन) उत्पादनेन प्रकृष्टैश्वर्येण सह वा (प्रोहामि) प्रकृष्टतया विविधशुद्धतर्केण योजयामि (अग्नीषोमौ) विद्यया सम्यक् प्रयोजितौ (तम्) शत्रुं रोगं वा (अप) दूरीकरणे (नुदताम्) प्रेरयतः । अत्र लडर्थे लोट् (यः) अन्यायकारी (अस्मान्) न्यायकारिण: (द्वेष्टि) शत्रूयति (यम्) अन्यायकारिणम् (च) समुच्चये (वयम्) न्यायाधीशाः (द्विष्मः) विरुध्यामः (वाजस्य) यानवेगादियुक्तस्य सैन्यस्य (एनम्) पूर्वोक्तं दुष्टम् (प्रसवेन) प्रकृष्टतया युद्धविद्याप्रेरणेन (अप) दूरीकरणे (ऊहामि) विविधतर्केण क्षिपामि (इन्द्राग्न्योः) इन्द्रो=वायुरग्निविद्युत्तयोः (उज्जितिम्) विद्यया सम्यगुत्कर्षम् (अनूज्जेषम् ) अनुगतमुत्कर्षं प्राप्नुयाम् । अस्य सिद्धिः पूर्ववत् (वाजस्य) प्रेरणाप्रेरणवेगप्राप्तेः (मा) माम्, वायुविद्युद्विद्याप्राप्तम् (प्रसवेन) ऐश्वर्यार्थमुत्पादितेन (प्रोहामि) प्रकृष्टैर्विविधैस्तर्कैः सुखानि प्राप्नोमि (इन्द्राग्नी) पूर्वोक्तौ सम्यक्साधितौ (तम्) द्वेषस्वभावम् (अप) निषेधार्थे (नुदताम् ) प्रेरयतः । अत्र लडर्थे लोट् (यः) अविद्वान् (अस्मान्) विदुषः (द्वेष्टि) अप्रीतयति (यम्) दुष्टस्वभावम् (च) समुच्चयार्थे (वयम्) विद्वांसः (द्विष्मः) अप्रीतयामः (वाजस्य) वीज्ञानस्य (एनम् ) मूर्खम् (प्रसवेन) उत्पादनेन (अप) वर्जने (ऊहामि) विविधां शिक्षां करोमि ॥ अयं मंत्र: श० १।८।३।१-४ व्याख्यातः ॥ १५ ॥
Essence
[अहमग्नीषोमयोरुज्जितिमनुज्जेषं......मया सम्यक्साधितावग्नीषोमौ इन्द्राग्नी योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं [अपनुदताम्]=अपनुदतः]

ईश्वर उपदिशति--सर्वैर्मनुष्यैरिह विद्यायुक्तिभ्यामग्निजलयोर्मेलनेन कलाकौशलाद् वेगादिगुणानां प्रकाशेन तथा वायुविद्युतोर्विद्यया सर्वदारिद्र्यनाशेन शत्रूणां विजयेन,

[अहं वाजस्य प्रसवेनैनमपोहामि]

सुशिक्षया मनुष्याणां मूढत्वं दूरीकृत्य, विद्वत्त्वं प्रापय्य च विविधानि सुखानि प्राप्तव्यानि, प्रापयितव्यानि च ।

                            [तात्पर्यमाह--]

एवं सम्यक् सर्वाः पदार्थविद्या जगति प्रकाशनीयाः।

[मन्त्रसंगतिमाह--]

पूर्वेण मन्त्रेण यत्कार्यं प्रकाशितं तदनेन पोषितम् ॥ २ । १५ ॥
Subject
अथ तेन किं किं दूरीकर्त्तव्यमित्युपदिश्यते ॥
Meaning of Anvay
अहमग्नीषोमयोः अग्निश्च सोमश्च तयोः प्रसिद्धाऽग्निचन्द्रलोकयोः उज्जितिं जयत्यनया सा जितिरुत्कृष्टा चाऽसौ जितिश्च तामुत्कृष्टं विजयम् अनूज्जेषं पश्चादुत्कृष्टतया जयं कुर्याम् । अहं वाजस्य युद्धस्य प्रसवेन उत्पादनेन प्रकृष्टैश्वर्येण सह वा मा=मां विजेतारं प्र+ऊहामि प्रकृष्टतया विविध शुद्धतर्केण योजयामि।

मया सम्यक्साधितौ अग्नीषोमौ विद्यया सम्यक् प्रयोजितौ यः अन्यायकारी अस्मान् न्यायकारिणो द्वेष्टि शत्रूयति, यम् अन्यायकारिणं च वयं न्यायाधीशा द्विष्मो विरुध्यामः', तं शत्रुं रोगं वा [अप नुदताम्]=अपनुदतो दूर प्रेरयतः ।

अहमेनं पूर्वोक्त दुष्टं वाजस्य यानवेगादि- युक्तस्य सैन्यस्य प्रसवेन प्रकृष्टतया युद्धविद्याप्रेरणेन अप+ऊहामि विविधतर्केण दूरं क्षिपामि ।

अहमिन्द्राग्न्योः इन्द्रो वायुरग्निविद्युत्तयोः उज्जिति विद्यया सम्यगुत्कर्षम् अनूज्जेषम् अनुगतमुत्कर्षं प्राप्नुयाम्।

अहं वाजस्य प्रेरणाप्रेरणवेगप्राप्तेः प्रसवेन ऐश्वर्याऽर्थमुत्पादितेन मा=मां वायुविद्युद्विद्याप्राप्तं नित्यं प्रोहामि प्रकृष्टैर्विविधैस्तर्कैः सुखानि प्राप्नोमि।

अस्माभिः सम्यक्साधिताविन्द्राग्नी पूर्वोक्तौ सम्यक्साधितौ (वायुविद्युतौ) यः अविद्वान् अस्मान् विदुषो द्वेष्टि अप्रीतयति, यं दुष्ट-स्वभावं च वयं , विद्वांसो द्विष्मः अप्रीतयामः, तं द्वेषस्वभावम् [अप+नुदताम्]=अप-नुदतो न प्रेरयतः।

अहं वाजस्य विज्ञानस्य प्रसवेन उत्पादनेन एनं मूर्खम् अपोहामि तद्वर्जनार्थं विविधां शिक्षां करोमि ॥२।१५॥
Meaning of Essence
अग्नीषोमयोः=अग्निजलयोः। इन्द्राग्नयोः=वायुविद्युतोः। एनम्=मूढम् दुष्टं च।

 
Special
परमेष्ठी प्रजापतिः । अग्नीषोमौ=अग्निजले ॥ ब्राह्मी बृहती मध्यमः॥ उत्तरार्द्धस्य इन्द्राग्नी--वायुविद्युतौ ॥ निचृदतिजगती ॥ मध्यमः निषादः ॥