Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 14

34 Mantra
2/14
Devata- अग्निः सर्वस्य Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- अनुष्टुप्,भूरिक् आर्ची गायत्री Swara- गान्धारः
Mantra with Swara
ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च प्यायस्व। व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि। अग्ने॑ वाजजि॒द् वाजं॑ त्वा संसृ॒वासं॑ वाज॒जित॒ꣳ सम्मा॑र्ज्मि॥१४॥

ए॒षा। ते॒। अ॒ग्ने॒। स॒मिदिति॑ स॒म्ऽइत्। तया॑। वर्ध॑स्व। च॒। आ॒। च॒। प्या॒य॒स्व॒। व॒र्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒। अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒सृ॒वास॒मिति॑ स॒सृ॒वास॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒ ॥१४॥

Mantra without Swara
एषा तेऽअग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि । अग्ने वाजजिद्वाजन्त्वा ससृवाँसँ वाजजितँ सम्मार्ज्मि ॥

एषा। ते। अग्ने। समिदिति सम्ऽइत्। तया। वर्धस्व। च। आ। च। प्यायस्व। वर्धिषीमहि। च। वयम्। आ। च। प्यासिषीमहि। अग्ने। वाजजिदिति वाजऽजित्। वाजम्। त्वा। ससृवासमिति ससृवासम्। वाजजितमिति वाजऽजितम्। सम्। मार्ज्मि॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एषा) प्रदीप्तिहेतुः (ते) तव तस्य वा (अग्ने) परमेश्वर ! भौतिको वा (समित्) सभ्यगिध्यत=दीप्यतेऽनया सा विद्या काष्ठादिर्वा (तया) विद्यया समिधा वा (वर्धस्व) वर्धते वा। सर्वत्रांत्यपक्षे व्यत्ययो लडर्थे लोट् च (च) समुच्चये (आ) क्रियायोगे (च) पुनरर्थे (प्यायस्व) प्यायते वा (वर्धिषीमहि) स्पष्टार्थम् (च) समुच्चये (वयम् ) विद्यावन्तो धार्म्मिकाः (आ) समन्तात् क्रियायोगे (च) अन्वाचये (प्यासिषीमहि) अत्र प्यैङ्धातोः सिबुत्सर्गश्छन्दसि॥अ॰ ३।१।३४॥ अनेन वार्तिकेन सिप्प्रत्ययः (अग्ने) ज्ञानस्वरूपविजयप्रदेश्वर ! भौतिको वा (वाजजित्) वाजं=सर्वस्य वेगं जयति स ईश्वरः । वाजं जयति येन वा स भौतिकः (वाजम्) ज्ञानवन्तं वेगवन्तं वा (त्वा) त्वां तं वा (ससृवांसम्) सर्वं ज्ञानवन्तं शिल्पविद्यागुणप्राप्तिमन्तं वा (वाजजितम्) यो येन वा वाजं=संग्रामं जयति तम् (सम्) सम्यगर्थे (मार्ज्मि) शुद्धो भवामि शोधयामि वा ॥ अयं मंत्रः श० १ । ८ । ४-६ व्याख्यातः ॥ १४ ॥
Essence
[क्रियाद्वयाभिप्रायमाह--]

अत्र श्लेषालङ्कारः ॥ क्रियाद्वयं चादरार्थं विज्ञेयम् ।

ये मनुष्याः परमेश्वराज्ञापालने क्रियाकौशले च वर्द्धन्ते ते विद्यायां सर्वानानन्दयित्वा दुष्टान् शत्रून् जित्वा शुद्धा भूत्वा सुखयन्ति; नेतरेऽलसाः ।

 

चकार चतुष्टयेनेश्वराज्ञा धा सूक्ष्मस्थूलतया- ऽनेकविधाऽस्ति, तथा-क्रियाकाण्डे कर्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम् ।

 

त्रयोदशमन्त्रण या वेदविद्या प्रतिपादितास्ति तया सुखार्थं यज्ञसंधानमुक्तमनेनैतयैव पुरुषार्थः कार्य इति प्रकाशितम् ॥ २। १४ ॥

[चकारचतुष्टयाभिप्रायमाह--]

चकार चतुष्टयेनेश्वराज्ञा धर्म्या सूक्ष्मस्थूलतयानेकविधास्ति, तथा—क्रियाकाण्डे कर्त्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम्। 

[मन्त्रसंगतिमाह--]

त्रयोदशमन्त्रेण या वेदविद्या प्रतिपदितास्ती तया सुखार्थं यज्ञसंधान्मुक्तामानेनैतायैव पुरुषार्थः कार्य इति प्रकाशितम ॥२।१४॥
Subject
अग्निना यज्ञे कथमुपकारो ग्राह्य इत्युपदिश्यते ।
Meaning of Anvay
हे अग्ने !=जगदीश्वर परमेश्वर! ते=तव यैषा प्राप्तिहेतुः समित्=वेदविद्या सम्यगिध्यते दीप्यतेऽनया सा विद्या अस्ति तया विद्यया अस्माभिः स्तुतः संर्स्त्व वर्धस्व चाऽस्मान् नित्यं वर्धय।

हे भगवन् ! एवं भवद्विदितगुणैरस्माभिः प्रकाशितः संस्त्वं [आ+] प्यायस्व चाऽस्मान् नित्यं व्यापय।

हे अग्ने !=भगवन् ज्ञानस्वरूप विजयप्रदेश्वर! वाजजित् वाजं सर्वस्य वेगं जयति स ईश्वरो वाजं ज्ञानवन्तं ससृवांसं सर्वं ज्ञानवन्तं [वाजजितम्] यो वाजं सङ्ग्रामं जयति तं त्वा त्वां वयं विद्यावन्तो धार्मिका वर्धिषीमहि।

कृपया भवान् चाऽस्मानपि वाजजितः सस्रुषो वाजान् करोतु । यथा वयं विद्यावन्तो धार्मिका भवन्तम् [आ] समन्तात् प्यासिषीमहि तथैव भवाँश्चाऽस्मान् सर्वैः शुभगुणैराप्यायताम् ।

अहं भवन्तमाश्रित्य सम् +मार्ज्मि=भवदाज्ञाऽनुष्ठानेन शुद्धो भवामि। इत्येकः ॥

या एषा प्रदीप्तिहेतुः ते=अस्य तस्य अग्नेर्षर्द्धिका समित् सम्यगिध्यते दीप्यतेऽनया सा काष्ठादिः अस्ति, तया समिधा चाऽयं [वर्धस्व] =वर्धते आप्यायते च । वयं विद्यावन्तो धार्मिका [त्वा] =तं वाजं

वेगवन्तं ससृवांसं शिल्पविद्यागुणप्राप्तिमन्तं वाजजितम्=अग्निं येन वाजं सङ्ग्रामं जयति तं वर्धि- षीमहि आ समन्तात् प्यासिषीमहि च ।

यतोऽयं शिल्पविद्यासिद्धैर्विमानादिभियानैर्वाजान् सस्रुषो वाजजितोऽस्मान् विजयेन वर्धयति, [त्वा] =तमहं सम्+मार्ज्मि सम्यक् शोधयामि। इति द्वितीयः ॥ २ । १४ ॥
Special
परमेष्ठी प्रजापतिः । अग्नि:=ईश्वरो भौतिकश्च ॥ पूर्वोऽनुष्टुप् । गान्धारः। अग्ने वाजजिदित्यत्र भुरिगार्चीगायत्री । षड्जः ॥