Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 12

34 Mantra
2/12
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् बृहती, Swara- मध्यमः
Mantra with Swara
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑। तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व॥१२॥

ए॒तम्। ते॒। दे॒व॒। स॒वि॒तः॒। य॒ज्ञम्। प्र। आ॒हुः॒। बृह॒स्पत॑ये। ब्र॒ह्मणे॑। तेन॑। य॒ज्ञम्। अ॒व॒। तेन॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। तेन॑। माम्। अ॒व॒ ॥१२॥

Mantra without Swara
एतन्ते देव सवितर्यज्ञम्प्राहुर्बृहस्पतये ब्रह्मणे । तेन यज्ञमव तेन यज्ञपतिं तेन मामव ॥

एतम्। ते। देव। सवितः। यज्ञम्। प्र। आहुः। बृहस्पतये। ब्रह्मणे। तेन। यज्ञम्। अव। तेन। यज्ञपतिमिति यज्ञऽपतिम्। तेन। माम्। अव॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एतम्) पूर्वोक्तम् (ते) तव (देव) दिव्यसुखगुणानां दातः (सवितः) सकलैश्वर्यविधातर्जगदीश्वर (यज्ञम्) य सुखाय यष्टुमर्हम् (प्राहुः) प्रकृष्ट ब्रुवन्ति (बृहस्पतये) बृहत्या वेदवाण्याः पालकाय (ब्रह्मणे) चतुर्वेदाध्ययनेन ब्रह्मत्वाधिकारं प्राप्ताय (तेन) बृहद्विज्ञानदानेन (यज्ञम्) पूर्वोक्तं त्रिविधम् (अव) नित्यं रक्ष (तेन) धर्मानुष्ठानेन (यज्ञपतिम्) यज्ञस्यानुष्ठानेन पालकम् (तेन) विद्याधर्मप्रकाशेन (माम्) (अव) रक्ष ॥ अयं मंत्रः श० १ । ७ । ४ । २१ व्याख्यातः ॥ १२॥
Essence
[हे—सवितः=जगदीश्वर! वेदा विद्वांसश्च.....यज्ञं भवत्प्रकाशितमाहुः, येन बृहस्पतये ब्रह्मणे सुखाधि काराः प्राप्नुवन्ति]

ईश्वरेण सृष्ट्यादौ गुणवद्भ्योऽग्निवायुरङ्गिरोभ्यश्चतुर्वेदोपदेशेन सर्वेषां मनुष्याणां विद्याप्राप्त्या सुखाय यज्ञानुष्ठानविधिरुपदिष्टोऽनेनैव रक्षणविधानं च ।

[तेनेमं यज्ञं, यज्ञपतिं, मां चाऽव=सततं रक्ष]

नैव विद्याशुद्धिक्रियाभ्यां विना कस्यचित् सुखरक्षणे भवितुमर्हतस्तस्मात् सर्वैः परस्परं प्रीत्यै तयोर्वृद्धिरक्षणे प्रयत्नतः सदैव कार्ये ।

[मन्त्रसंगतिमाह--]

 

यश्चैकादशेन मन्त्रेण यज्ञफलभोग उक्तस्तत्प्रकाश ईश्वरेणैव कृत इति गम्यते ॥ २।१२॥
Subject
कस्मै प्रयोजनाय केनायं विद्याप्रबन्धः प्रकाशित इत्युपदिश्यते ।
Meaning of Anvay
हे देव! दिव्यगुणसुखानां दातः ! सवितः=जगदीश्वर सकलैश्वर्यविधातः (जगदीश्वर)! वेदा विद्वांसश्च यमेतं पूर्वोक्तं यज्ञं यं सुखाय यष्टुमर्हं भवत्प्रकाशितं प्र+आहुः प्रकृष्टं ब्रुवन्ति, येन बृहस्पतये बृहत्या वेदवाण्याः पालकाय ब्रह्मणे चतुर्वेदाऽध्ययनेन ब्रह्मत्वाऽधिकारं प्राप्ताय सुखाऽधिकाराः प्राप्नुवन्ति, तेन बृहद्विज्ञानदानेन इमं यज्ञं पूर्वोक्तं त्रिविधं, [तेन] धर्माऽनुष्ठानेन यज्ञपतिं यज्ञस्यानुष्ठानेन पालकम्, [तेन] विद्या-धर्म-प्रकाशेन मां चाऽव=सततं रक्ष नित्यं (रक्ष) ॥ २ । १२ ॥
Special
परमेष्ठी प्रजापतिः । सविता=ईश्वरः ॥ भुरिग्बृहती । मध्यमः ॥