Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 10

34 Mantra
2/10
Devata- इन्द्रो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
मयी॒दमिन्द्र॑ऽइन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम्। अ॒स्माक॑ꣳ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिष॒ऽउप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑॥१०॥

मयि॑। इ॒दम्। इन्द्रः॑। इ॒न्द्रि॒यम्। द॒धा॒तु। अ॒स्मान्। रायः॑। म॒घवा॒न॒ इति॑ म॒घऽवा॑नः। स॒च॒न्ता॒म्। अ॒स्माक॑म्। स॒न्तु॒। आ॒शिष॒ इत्या॒ऽशिषः॑। स॒त्याः। नः॒। स॒न्तु॒। आ॒शिष॒ इत्या॒ऽशिषः॑। उप॑हू॒तेत्युप॑ऽहूता। पृ॒थि॒वी। मा॒ता। उप॑। माम्। पृ॒थि॒वी। मा॒ता। ह्व॒य॒ता॒म्। अ॒ग्निः। आग्नी॑ध्रात्। स्वाहा॑ ॥१०॥

Mantra without Swara
मयीदमिन्द्रऽइन्द्रियन्दधात्वस्मान्रायो मघवानः सचन्ताम् । अस्माकँ सन्त्वाशिषः सत्या नः सन्त्वाशिषः उपहूता पृथिवी मातोप माम्पृथिवी माता ह्वयतामग्निराग्नीध्रात्स्वाहा ॥

मयि। इदम्। इन्द्रः। इन्द्रियम्। दधातु। अस्मान्। रायः। मघवान इति मघऽवानः। सचन्ताम्। अस्माकम्। सन्तु। आशिष इत्याऽशिषः। सत्याः। नः। सन्तु। आशिष इत्याऽशिषः। उपहूतेत्युपऽहूता। पृथिवी। माता। उप। माम्। पृथिवी। माता। ह्वयताम्। अग्निः। आग्नीध्रात्। स्वाहा॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रः) परमेश्वरः (इन्द्रियम्) इन्द्रस्यैश्वर्यप्राप्तेर्लिङ्गं चिह्नमिन्द्रेण परमेश्वरेण दृष्टमिन्द्रेण सृष्टं प्रकाशितमिन्द्रेण विद्यावता जीवेन जुष्टं संप्रीत्या सेवितमिन्द्रेण परमेश्वरेण यद्दत्तं सर्वसुखज्ञानसाधकम् । इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ अ० ५। २ । ९३ ॥ अनेनोक्तेष्वर्थेष्विन्द्रियशब्दो निपातितः (दधातु) नित्यं धारयतु (अस्मान्) मनुष्यान् (रायः) विद्यासुवर्णचक्रवर्त्तिराज्यादिधनानि । राय इति धननामसु पठितम् ॥ निघं० २ ॥ १० ॥ (मघवानः) मघानि=बहूनि धनानि विद्यन्ते येष्वैश्वर्ययोगेषु ते । अत्र भूम्न्यर्थे मतुप् । मघमिति धननामधेयं मंहतेर्दानकर्मणः ॥ निरु० २।७ ॥ (सचन्ताम्) समवेता: =प्राप्ता भवन्तु (अस्माकम् ) परोपकारिणां धार्मिकाणां मानवानाम् (सन्तु) भवन्तु (आशिषः) कामनाः (सत्याः) सिद्धाः (नः) अस्माकं विद्यावतां राज्यसेविनाम् । (सन्तु) भवन्तु (आशिषः) न्यायेच्छाविशिष्टाः क्रिया: । शास इत्त्वे आशास: क्वावुपसंख्यानम् ॥ ०६।४ । ३४ ॥ अनेन वार्त्तिकेनाशीरिति सिद्धः (उपहूता) उपहूयते जनै राज्यसुखार्थं या (पृथिवी) पृथुसुखनिमित्ता (माता) मान्यकरणहेतुः (उप) गतार्थे (माम्) सुखार्थिनं धार्मिकम् (पृथिवी) पृथुसुखदात्री विद्या (माता) धर्मार्थकाममोक्षसिद्ध्या मान्यदात्री (ह्वयताम्) स्पर्धतामुपदिशताम् (अग्निः) ईश्वरः (आग्नीध्रात्) अग्निरिध्यते प्रदीप्यते यस्मिन् तस्येदं शरणमाश्रयणं तस्मात् । अग्नीधः शरणे रञ् भं च ॥ अ० ४।३। १२० ॥ अनेन वार्त्तिकेनाधिकरणवाचिनः क्विबन्तादग्नीध् प्रातिपदिका दञ् प्रत्ययः (स्वाहा) सुहुतमाह यया सा ॥ अयं मंत्रः॥ श० १।८।१।४२ तथा ४१॥ व्याख्यातः ॥१०॥
Essence
[इन्द्रो मयीदमिन्द्रियं.....दधातु, तत्कृपया स्वपुरुषार्थेन च यथा वयं मघवानो भवेम, तथाऽस्मान् रायः

सचन्ताम्, एवं चास्माकमाशिषः सत्याः सन्तु]

ये पुरुषार्थिन ईश्वरोपासका स्त एव शोभनं मनः श्रेष्ठान्युत्तमानि धनानि सत्या इच्छाश्च प्राप्नुवन्ति; नेतरे।

[पृथिवी]

सर्वस्य मान्यप्राप्तिहेतुत्वाद् भूमिविद्ये पृथिवीशब्देनात्र प्रकाशिते स्तः। सर्वैरेते सदोपकर्त्तव्ये भवत इतीश्वरोऽनेन वेदमन्त्रेणाह।

[मन्त्रसंगतिमाह--]

नवममन्त्रेणान्यादिभ्यः साधितेभ्य इष्टसुखप्राप्तिरुदिता सैवानेन दशमेन मन्त्रेण प्रकाशितेति ॥२।१०॥
Subject
अथ तज्जन्यं फलमुपदिश्यते ॥
Meaning of Anvay
 इन्द्रः परमेश्वरो मयीदमिन्द्रियम् इन्द्रस्यैश्वर्यप्राप्तेर्लिङ्ग=चिह्नमिन्द्रेण=परमेश्वरेण दृष्टमिन्द्रेण सृष्टम्=प्रकाशितमिन्द्रेण=विद्यावता जीवेन जुष्टम्=संप्रीत्या सेवितमिन्द्रेण=परमेश्वरेण यद् दत्तं सर्वसुखज्ञानसाधकं रायः विद्यासुवर्णचक्रवर्त्तिराज्यादिधनानि च दधातु नित्यं धारयतु ।

तत्कृपया स्वपुरुषार्थेन च यथा वयं मघवानो मघानि=बहूनि धनानि विद्यन्ते येष्वैश्वर्ययोगेषु ते भवेम, तथाऽस्मान् मनुष्यान् रायो विद्यासुवर्णचक्रवर्त्तिराज्यादिधनानि सचन्तां समवेताः=प्राप्ता भवन्तु।

एवं चाऽस्माकं परोपकारिणां धार्मिकाणां मानवानाम् [नः] अस्माकं विद्यावतां राज्यसेविनां आशिषः कामना: न्यायेच्छाविशिष्टाः क्रियाः सत्याः सिद्धाः सन्तु भवन्तु ।

एवं माता मान्यकरणहेतुः धर्मार्थकाममोक्षसिद्धया मान्यदात्री इयं पृथिवी=विद्या पृथुसुखनिमित्ता पृथुसुखदात्री विद्या उपहूता उपहूयते जनै राज्यसुखार्थ या च सती मां सुखार्थिनं धार्मिकम् उप +ह्वयताम्=उपदिशतां स्पर्द्धताम् (उपदिशताम्)।

तथा मयाऽनुष्ठितोऽयमग्निः ईश्वर आग्नीध्राद् अग्निरिध्यते=प्रदीप्यते यस्मिँस्तस्येदं शरणमाश्रयणं तस्माद् इष्टकृत्सन् नः=अस्माकम् सुखान्युपह्वयति, एवं सम्यग्घुतमिष्टकारि भवतीति स्वाहा= वेदवाण्याह सुहुतमाह यया सा ॥२॥१०॥
Meaning of Essence
इन्द्रियम्=शोभनं मनः । मघवानः=श्रेष्ठान्युत्तमानि धनानि। पृथिवी=भूमिः, विद्या।
Special
परमेष्ठी प्रजापतिः । इन्द्रो=ईश्वरः ॥ भुरिग्ब्राह्मीपंक्तिः । पञ्चमः स्वरः ॥