Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 2 / Mantra 1

34 Mantra
2/1
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
कृष्णो॑ऽस्याखरे॒ष्ठोऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॒मि॥१॥

कृष्णः॑। अ॒सि॒। आ॒ख॒रे॒ष्ठः। आ॒ख॒रे॒स्थ इत्या॑खरे॒ऽस्थः। अ॒ग्नये॑। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। वेदिः॑। अ॒सि॒। ब॒र्हिषे॑। त्वा॒। जुष्टा॑म्। प्र। उ॒क्षा॒मि॒। ब॒र्हिः। अ॒सि॒। स्रु॒ग्भ्य इति स्रु॒क्ऽभ्यः। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒ ॥१॥

Mantra without Swara
कृष्णोस्याखरेष्ठोग्नये त्वा जुष्टम्प्रोक्षामि वेदिरसि बर्हिषे त्वा जुष्टांम्प्रोक्षामि बर्हिरसि स्रुग्भ्यस्त्वा जुष्टंम्प्रोक्षामि ॥

कृष्णः। असि। आखरेष्ठः। आखरेस्थ इत्याखरेऽस्थः। अग्नये। त्वा। जुष्टम्। प्र। उक्षामि। वेदिः। असि। बर्हिषे। त्वा। जुष्टाम्। प्र। उक्षामि। बर्हिः। असि। स्रुग्भ्य इति स्रुक्ऽभ्यः। त्वा। जुष्टम्। प्र। उक्षामि॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कृष्णः) अग्निना छिन्नो वायुनाऽऽकर्षितो यज्ञः (असि) भवति । अत्र सर्वत्र व्यत्ययः (आखरेष्ठः) समन्तात्खनति यं तस्मिन् तिष्ठतीति सः । खनोडडरेकेकवकाः ॥ अ० ३।३।१२५॥ अनेन वार्तिकेनाऽऽखरः सिध्यति (अग्नये) हवनार्थाय (त्वा) तद्धविः (जुष्टम्) प्रीत्या संशोधितम् (प्रोक्षामि) शोधितेन घृतादिनाऽऽद्री करोमि (वेदिः) विन्दति सुखान्यनया सा (असि) भवति (बर्हिषे) अन्तरिक्षगमनाय । बर्हिरित्यन्तरिक्षनामसु पठितम् ॥ निघं० १ । ३ ॥ (त्वा) तां वेदिम् (जुष्टाम्) प्रीत्या संपादिताम् (प्रोक्षामि) प्रकृष्टतया घृतादिना सिंचामि (बर्हिः) शुद्धमुदकम् । बर्हिरित्युदकनामसु पठितम् ॥ निघं० १ । १२ ॥ (असि) भवति (स्रुग्भ्यः) स्रावयन्ति=गमयन्ति हविर्येभ्यस्तेभ्यः । अत्र   स्रुगतावित्यस्मात् । चिक् च ॥ उ० २ । ६१ ॥ अनेन चिक् प्रत्ययः (त्वा) तत् (जुष्टम्) पुष्ट्यादिगुणयुक्तं प्रीतिकरं जलं पवनं वा (प्रोक्षामि) शोधयामि ॥ अयं मंत्रः श० १ । ३ । ३ । १–३ व्याख्यातः ॥ १ ॥
Essence
[इयं वेदः....."यत इदं बर्हिः=उदकमन्तरिक्षस्थं सच्छुद्धिकारि [असि] भवति, तस्मात् त्वा=तच्छोधितं

जुष्टं हविः स्रुग्भ्योऽहं प्रोक्षामि]

ईश्वर उपदिशति--सर्वैमनुष्यैर्वेदिं रचयित्वा, पात्रादि-सामग्रीं गृहीत्वा, सम्यक् शोधित्वा तद्धविरग्नौ हुत्वा, कृतो यज्ञः शुद्धेन वृष्टिजलेन सर्वा ओषधीः पोषयति ।

[कर्त्तव्यमाह--]

 तेन सर्वे प्राणिनः सुखयितव्या इति ॥२।१॥
Meaning of Anvay
यतोऽयं यज्ञ आखरेष्ठः समन्तात् खनति यं तस्मिन् तिष्ठतीति सः कृष्णः अग्निना छिन्नो वायुनाऽऽकर्षितो यज्ञः [असि]=भवति, तस्मात् त्वा=तं तद्धतिः अहमग्नये हवनाऽर्थाय जुष्टं प्रीत्या संशोधितं प्रोक्षामि शोधितेन घृतादिनाऽऽर्द्रीकरोमि ।

यत इयं वेदिः विन्दति सुखान्यनया सा अन्तरिक्षस्था असि=भवति, तस्मादहं त्वा=तामिमां तां वेदिं बर्हिषे अन्तरिक्षगमनाय जुष्टां प्रीत्या सम्पादितां प्रोक्षामि प्रकृष्टतया घृताऽऽदिना सिञ्चामि।

यत इदं बर्हिः=उदकं शुद्धमुदकम् अन्तरिक्षस्थं सच्छुद्धिकारि [असि]=भवति, तस्मात् त्वा=तत् शोधितं जुष्टं=हविः पुष्ट्यादिगुणयुक्तं प्रीतिकरं जलं पवनं वा स्रुग्भ्यः स्रावयन्ति=गमयन्ति हविर्येभ्यस्तेभ्यः अहं प्रोक्षामि शोधयामि ॥२ । १॥
Meaning of Essence
. शोधित्वा ।