Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 99

117 Mantra
12/99
Devata- ओषधिर्देवता Rishi- वरुण ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
सह॑स्व मे॒ऽअरा॑तीः॒ सह॑स्व पृतनाय॒तः। सह॑स्व॒ सर्वं॑ पा॒प्मान॒ꣳ सह॑मानास्योषधे॥९९॥

सह॑स्व। मे॒। अरा॑तीः। सह॑स्व। पृ॒त॒ना॒य॒त इति॑ पृतनाऽय॒तः। सह॑स्व। सर्व॑म्। पा॒प्मान॑म्। सह॑माना। अ॒सि॒। ओ॒ष॒धे॒ ॥९९ ॥

Mantra without Swara
सहस्व मे अरातीः सहस्व पृतनायतः । सहस्व सर्वम्पाप्मानँ सहमानास्योषधे ॥

सहस्व। मे। अरातीः। सहस्व। पृतनायत इति पृतनाऽयतः। सहस्व। सर्वम्। पाप्मानम्। सहमाना। असि। ओषधे॥९९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सहस्व) बलीभव (मे) मम (अरातीः) शत्रून् (सहस्व) (पृतनायतः) आत्मनः पृतनां=सेनामिच्छतः (सहस्व) (सर्वम्) (पाप्मानम्) रोगादिकम् (सहमाना) बलनिमित्ता (असि) (ओषधे) ओषधिवद्वर्त्तमाने ।। ९९।।
Essence
मनुष्यैरोषधिसेवनेन बलं वर्धयित्वा प्रजायाः स्वस्य च शत्रून् पापात्मनो जनाँश्च वशं नीत्वा सर्वे प्राणिनः सुखयितव्याः।।
Subject
मनुष्यैः किं कृत्वा किं कार्य्यमित्याह॥
Meaning of Anvay
हे ओषधे ओषधिवद्वर्त्तमाने स्त्रि! यथौषधिः सहमानासि मे मम रोगान् सहते तथाऽरातीः सहस्व स्वस्य पृतनायत--सहस्व। सर्वं पाप्मानं सहस्व ।। ९९।।

सपदार्थान्वयः - हे ओषधे=ओषधिवद्वर्त्तमाने स्त्रि! ओषधिवद्वर्त्तमाने! यथौषधिः सहमाना बलनिमित्ता असि, मे=मम रोगान् सहते, तथा अरातीः शत्रून् सहस्व बली भव, स्वस्य पृतनायतः आत्मनः पृतनां सेनामिच्छतः सहस्व बली भव, सर्वं पाप्मानं रोगादिकं सहस्व बली भव।।

[हे ओषधे!.....सहमानाऽसि अरातीः सहस्व, स्वस्य पृतनायतः सहस्व, सर्वं पाप्मानं सहस्व]
Meaning of Essence
सहमाना=बलवर्द्धिका। पृतनायतः=शत्रून्। पाप्मानम्=पापात्मानं जनम्। सहस्व=वशे नय।
Special
वरुणः। ओषधिः=स्पष्टम्। विराडनुष्टुप्। गान्धारः॥