Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 98

117 Mantra
12/98
Devata- वैद्या देवताः Rishi- वरुण ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वां ग॑न्ध॒र्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पतिः॑। त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत॥९८॥

त्वाम्। ग॒न्ध॒र्वाः। अ॒ख॒न॒न्। त्वाम्। इन्द्रः॑। त्वाम्। बृह॒स्पतिः॑। त्वाम्। ओ॒ष॒धे॒। सोमः॑। राजा॑। वि॒द्वान्। यक्ष्मा॑त्। अ॒मु॒च्य॒त॒ ॥९८ ॥

Mantra without Swara
त्वाङ्गन्धर्वाऽअखनँस्त्वामिन्द्रस्त्वाम्बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥

त्वाम्। गन्धर्वाः। अखनन्। त्वाम्। इन्द्रः। त्वाम्। बृहस्पतिः। त्वाम्। ओषधे। सोमः। राजा। विद्वान्। यक्ष्मात्। अमुच्यत॥९८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(त्वाम्) ताम् (गन्धर्वाः) गानविद्याकुशलाः (अखनन्) खनन्ति (त्वाम्) ताम् (इन्द्रः) परमैश्वर्य्ययुक्तः (त्वाम्) ताम् (बृहस्पतिः) वेदवित् (त्वाम्) ताम् (ओषधे) ओषधिम् (सोमः) सौम्यगुणसम्पन्नः (राजा) प्रकाशमानो राजन्यः (विद्वान्) सत्यशास्त्रवित् (यक्ष्मात्) क्षयादिरोगात् (अमुच्यत) मुच्येत ।। ९८।।
Essence
याः काश्चिदोषधयो मूलेन, काश्चिच्छाखादिना, काश्चित्पुष्पेण, काश्चित्पत्रेण, काश्चित्फलेन, काश्चित् सर्वाङ्गै रोगान् मोचयन्ति; तासां सेवनं मनुष्यैर्यथावत् कार्यम् ।। १२। ९८।।
Subject
कः क ओषधिं खनतीत्युपदिश्यते॥
Meaning of Anvay
हे मनुष्याः! यथा सेवितया रोगी यक्ष्मादमुच्यत यामोषधे ओषधिं यूयमुपयुङ्ग्ध्वं त्वां तां गन्धर्वा अखनँस्त्वां तामिन्द्रस्त्वां तां बृहस्पतिस्त्वां तां सोमो विद्वान् राजा च त्वां तां खनेत् ।। ९८ ।।

सपदार्थान्वयः -- हे मनुष्याः! यथा सेवितया रोगी यक्ष्मात् क्षयादिरोगाद् अमुच्यत मुच्येत्, यामोषधे=ओषधिं=यूयमुपयुङ्ग्ध्वं, त्वां=तां गन्धर्वाः गानविद्याकुशलाः अखनन् खनन्ति, त्वां= ताम् इन्द्रः परमैश्वर्ययुक्तः, त्वां=तां बृहस्पतिः वेदवित्, त्वां=तां सोमः सौम्यगुणसम्पन्नः विद्वान् सत्यशास्त्रविद् राजा प्रकाशमानो राजन्यः च त्वां=तां खनेत्।। १२। ९८।।

[हे मनुष्याः! यया सेवितया रोगी यक्ष्मादमुच्यत, यामोषधे=ओषधिं यूयमुपयुङ्ग्ध्वम्]
Special
वरुणः। वैद्याः=स्पष्टम्। निचृदनुष्टुप्। गान्धारः॥