Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 97

117 Mantra
12/97
Devata- भिषग्वरा देवताः Rishi- वरुण ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑सऽउप॒चिता॑मसि। अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी॥९७॥

ना॒श॒यि॒त्री। बलास॑स्य। अर्श॑सः। उ॒प॒चिता॒मित्यु॑प॒ऽचिता॑म्। अ॒सि॒। अथोऽइत्यथो॑। श॒तस्य॑। यक्ष्मा॑णाम्। पा॒का॒रोरिति॑ पाकऽअ॒रोः। अ॒सि॒। नाश॑नी ॥९७ ॥

Mantra without Swara
नाशयित्री बलासस्यार्शस उपचितामसि । अथो शतस्य यक्ष्माणाम्पाकारोरसि नाशनी ॥

नाशयित्री। बलासस्य। अर्शसः। उपचितामित्युपऽचिताम्। असि। अथोऽइत्यथो। शतस्य। यक्ष्माणाम्। पाकारोरिति पाकऽअरोः। असि। नाशनी॥९७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(नाशयित्री) (बलासस्य) आविर्भूतकफस्य (अर्शसः) मूलेन्द्रियव्याधेः (उपचिताम्) अन्येषां वर्धमानानां रोगाणाम् (असि) अस्ति (अथो) (शतस्य) अनेकेषाम् (यक्ष्माणाम्) महारोगाणाम् (पाकारोः) मुखादिपाकस्यारोर्मर्मच्छिदः शूलस्य च (असि) अस्ति। अत्रोभयत्र व्यत्ययः (नाशनी) निवारयितुं शीला ।। ९७।।
Essence
[अथो......पाकारोर्नाशन्यसि]
एतासां विज्ञानेन रहिताः प्राणिनो रोगैः पच्यन्ते।
[तामोषधिं यूयं विजानीत]
यदि रोगाणामोषधीर्जनीयुस्तर्हि तेषां निवारणात् सततं सुखिनः स्युरिति।। १२। ९७।।
Subject
रोगपरिमाणा ओषधयः सन्तीत्याह॥
Meaning of Anvay
हे वैद्याः ! या बलासस्यार्शस उपचितां नाशयित्र्यसि अथो शतस्य यक्ष्माणां पाकारोर्नाशिन्यसि तामोषधिं यूयं विजानीत ।। ९७।।

सपदार्थान्वयः-- हे वैद्याः! या बलाशस्य आविर्भूतकफस्य अर्शसः मूलेन्द्रियव्याधे: उपचिताम् अन्येषां वर्धमानानां रोगाणां नाशयित्री असि अस्ति, अथो शतस्य अनेकेषां यक्ष्माणां महारोगाणां पाकारोः मुखादिपाकस्यारोर्मर्मच्छिदः शूलस्य च नाशनी निवारयितुं शीला असि अस्ति, तामोषधिं यूयं विजानीत ।। १२। ९७।।

[हे वैद्याः! या......उपचितां नाशयित्र्यसि]
Meaning of Essence
नाशयित्री=निवारिका।
Special
वरुणः। भिषग्वरा:=वैद्याः। अनुष्टुप्। गान्धारः।।