Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 96

117 Mantra
12/96
Devata- वैद्या देवताः Rishi- वरुण ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ओष॑धयः॒ सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑। यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि॥९६॥

ओष॑धयः। सम्। अ॒व॒द॒न्त॒। सोमे॑न। स॒ह। राज्ञा॑। यस्मै॑। कृ॒णोति॑। ब्रा॒ह्म॒णः। तम्। रा॒ज॒न्। पा॒र॒या॒म॒सि॒ ॥१६ ॥

Mantra without Swara
ओषधयः समवदन्त सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तँ राजन्पारयामसि ॥

ओषधयः। सम्। अवदन्त। सोमेन। सह। राज्ञा। यस्मै। कृणोति। ब्राह्मणः। तम्। राजन्। पारयामसि॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ओषधयः) सोमाद्याः (सम्) (अवदन्त) परस्परं संवादं कुर्य्यु: (सोमेन) (सह) (राज्ञा) प्रधानेन (यस्मै) रोगिणे (कृणोति) (ब्राह्मणः) वेदोपवेदवित् (तम्) (राजन्) प्रकाशमान (पारयामसि) रोगसमुद्रात्पारं गमयेम ।। ९६।।
Essence
वैद्याःपरस्परं प्रश्नोत्तरैरोषधिविज्ञानं सम्यक् कृत्वा रोगेभ्यो रोगिणः पारं नीत्वा सततं सुखयेयुः।
[ब्राह्मणः]
यश्चैतेषां विद्वत्तमः स्यात् स सर्वानायुर्वेदमध्यापयेत् ।। १२। ९६।।
Subject
गान्धारः किं कृत्वौषधिविज्ञानं वर्द्धेतेत्याह॥
Meaning of Anvay
हे मनुष्याः ! याः सोमेन राज्ञा सह वर्त्तमाना ओषधयः सन्ति तद्विज्ञानार्थं भवन्तः समवदन्त। हे राजन्! वयं वैद्या ब्राह्मणो यस्मै ओषधीः कृणोति तं रोगिणं रोगात् पारयामसि।। ९६।।
सपदार्थान्वयः— हे मनुष्याः ! याः सोमेन राज्ञा प्रधानेन सह वर्त्तमाना ओषधयः सोमाद्याः सन्ति, तद्विज्ञानार्थं भवन्तः सम्+अवदन्त परस्परं संवादं कुर्य्यु:।
हे राजन् प्रकाशमान! वयं वैद्या ब्राह्मणः वेदोपवेदविद् यस्मै रोगिणे ओषधीः कृणोति, तं रोगिणं रोगात् पारयामसि रोगसमुद्रात् पारं गमयेम ।। १२। ९६।।

[हे मनुष्याः! या......ओषधयः सन्ति तद्विज्ञानार्थं भवन्तः समवदन्त, वयं वैद्या:.....रोगिणं रोगात् पारयामसि]
Meaning of Essence
समवदन्त=परस्परं प्रश्नोत्तरं कुर्युः। ब्राह्मणः=विद्वत्तमः।।
Special
वरुणः। वैद्याः=स्पष्टम्। निचृदनुष्टुप्।