Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 95

117 Mantra
12/95
Devata- वैद्या देवताः Rishi- वरुण ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः। द्वि॒पाच्चतु॑ष्पाद॒स्मा॒कꣳ सर्व॑मस्त्वनातु॒रम्॥९५॥

मा। वः॒। रि॒ष॒त्। ख॒नि॒ता। यस्मै॑। च॒। अ॒हम्। खना॑मि। वः॒। द्वि॒पादिति॑ द्वि॒ऽपात्। चतु॑ष्पात्। चतुः॑पा॒दिति॒ चतुः॑ऽपात्। अ॒स्माक॑म्। सर्व॑म्। अ॒स्तु॒। अ॒ना॒तु॒रम् ॥९५ ॥

Mantra without Swara
मा वो रिषत्खनिता यस्मै चाहङ्खनामि वः । द्विपाच्चतुष्पादस्माकँ सर्वमस्त्वनातुरम् ॥

मा। वः। रिषत्। खनिता। यस्मै। च। अहम्। खनामि। वः। द्विपादिति द्विऽपात्। चतुष्पात्। चतुःपादिति चतुःऽपात्। अस्माकम्। सर्वम्। अस्तु। अनातुरम्॥९५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) (वः) युष्मान् (रिषत्) हिंस्यात् (खनिता) (यस्मै) प्रयोजनाय (च) (अहम्) (खनामि) उत्पाटयामि (वः) युष्माकम् (द्विपात्) मनुष्यादि (चतुष्पात्) गवादि (अस्माकम्) (सर्वम्) (अस्तु) भवतु (अनातुरम्) रोगेणातुरतारहितम्।। ९५।।
Essence
य ओषधीः खनेत् स ता निर्बीजा न कुर्यात्, यावत् प्रयोजनं तावदादाय प्रत्यहं रोगान्निवारयेदोषधिसन्ततिं च वर्धयेत्।
[यतो द्विपाच्चतुष्पादनातुरमस्तु]
येन सर्वे प्राणिनो रोगकष्टमप्राप्य सुखिनः स्युः।। १२। ९५।।
Subject
केनाप्योषधयो नैव ह्रासनीया इत्याह॥
Meaning of Anvay
हे मनुष्याः! अहं यस्मै यामोषधीं खनामि सा खनिता सती वो युष्मान् मा रिष्यत्। यतो वोऽस्माकं च सर्वं द्विपाच्चतुष्पादनातुरमस्तु।। ९५ ।।
सपदार्थान्वयः-- हे मनुष्याः! अहं यस्मै प्रयोजनाय यामोषधीं खनामि उत्पाटयामि, सा खनिता उत्पाटिता सती वः=युष्मान् मा रिषत् हिंस्यात्। यतो वः युष्माकम् अस्माकं च सर्वं द्विपात् मनुष्यादि चतुष्पात् गवादि अनातुरं रोगेणातुरतारहितम् अस्तु भवतु।। १२। ९५।।

[हे मनुष्याः! अहं......यामोषधीं खनामि सा.......मा रिषत्]
Meaning of Essence
अनातुरम्=रोगकष्टमप्राप्तम्।
Special
वरुणः। वैद्याः=स्पष्टम्। विराडनुष्टुप्। गान्धारः।।