Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 94

117 Mantra
12/94
Devata- भिषजो देवताः Rishi- वरुण ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः। सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै संद॑त्त वी॒र्य्यम्॥९४॥

याः। च॒। इ॒दम्। उ॒प॒शृ॒ण्वन्तीत्यु॑पऽशृ॒ण्वन्ति॑। याः। च॒। दू॒रम्। परा॑गता॒ इति॒ परा॑ऽगताः। सर्वाः॑। सं॒गत्येति॑ सम्ऽगत्य॑। वी॒रु॒धः॒। अ॒स्यै। सम्। द॒त्त॒। वी॒र्य्य᳖म् ॥९४ ॥

Mantra without Swara
याश्चेदमुपशृण्वन्ति याश्च दूरम्परागताः । सर्वाः सङ्गत्य वीरुधो स्यै सन्दत्त वीर्यम् ॥

याः। च। इदम्। उपशृण्वन्तीत्युपऽशृण्वन्ति। याः। च। दूरम्। परागता इति पराऽगताः। सर्वाः। संगत्येति सम्ऽगत्य। वीरुधः। अस्यै। सम्। दत्त। वीर्य्यम्॥९४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(या:) (च) विदिता: (इदम्) (उपशृण्वन्ति) (याः) (च) समीपस्थाः (दूरम्) (परागताः) (सर्वाः) (संगत्य) एकीभूत्वा (वीरुधः) वृक्षप्रभृतयः (अस्यै) प्रजायै (सम्) (दत्त) (वीर्य्यम्) पराक्रमम् ।। ९८।।
Essence
हे मनुष्याः ! या ओषधयो दूरसमीपस्था, रोगापहारिण्यो, बलकारिण्यः श्रूयन्ते ता उपयुज्यारोगिणो भवत ।। १२। ९४।।
Subject
शुद्धेभ्यो देशेभ्य ओषधयः संग्राह्या इत्याह॥
Meaning of Anvay
हे विद्वांसः! भवन्तो याश्चोपशृण्वन्ति याश्च दूरं परागतास्ताः सर्वा वीरुधः संगत्येदं वीर्य्यं प्रसाध्नुवन्ति तासां विज्ञानमस्यै कन्यायै संदत्त।। ९४।।

सपदार्थान्वयः-- हे विद्वांसः ! भवन्तो याश्च विदिताः उपशृण्वन्ति, याश्च समीपस्थाः दूरं परागताः, ताः सर्वाः वीरुधः वृक्षप्रभृतयः संगत्य एकीभूत्वा इदं वीर्य्यं पराक्रमं प्रसाध्नुवन्ति, तासां विज्ञानमस्यै =कन्यायै प्रजायै संदत्त ।। १२। ९४।।

[हे विद्वांसः! भवन्तो याश्चोपशृण्वन्ति, याश्च दूरं परागताः, ताः सर्वा वीरुधः संगत्येदं वीर्यं प्रसाध्नुवन्ति]
Meaning of Essence
वीरुधः=ओषधयः। वीर्यम्=बलम्।
Special
वरुणः। भिषजः=स्पष्टम्। विराडनुष्टुप्। गान्धारः।।