Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 93

117 Mantra
12/93
Devata- ओषधयो देवताः Rishi- वरुण ऋषिः Chhand- विराडार्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
याऽओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑। बृह॒स्पति॑प्रसूताऽअ॒स्यै संद॑त्त वी॒र्य्यम्॥९३॥

याः। ओष॑धीः। सोम॑राज्ञी॒रिति॒ सोम॑ऽराज्ञीः। विष्ठि॑ताः। विस्थि॑ता॒ इति॑ विऽस्थि॑ताः। पृ॒थि॒वीम्। अनु॑। बृह॒स्पति॑प्रसूता॒ इति॑ बृह॒स्पति॑ऽप्रसूताः। अ॒स्यै। सम्। द॒त्त॒। वी॒र्य्य᳖म् ॥९३ ॥

Mantra without Swara
याऽओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु । बृहस्पतिप्रसूता अस्यै सन्दत्त वीर्यम् ॥

याः। ओषधीः। सोमराज्ञीरिति सोमऽराज्ञीः। विष्ठिताः। विस्थिता इति विऽस्थिताः। पृथिवीम्। अनु। बृहस्पतिप्रसूता इति बृहस्पतिऽप्रसूताः। अस्यै। सम्। दत्त। वीर्य्यम्॥९३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(याः) (ओषधीः) ओषध्यः (सोमराज्ञीः) सोमप्रमुखाः (विष्ठिताः) विशेषेण स्थिताः (पृथिवीम्) (अनु) (बृहस्पतिप्रसूताः) बृहतः=कारणस्य पालकस्येश्वरस्य निर्माणादुत्पन्नाः (अस्यै) पत्न्यै (सम्) (दत्त) (वीर्य्यम्) ।। ९३।।
Essence
स्त्रीपुरुषाभ्यां महौषधीः संसेव्य सुनियमेन गर्भाधानमनुधेयम्।

[हे विद्वांसः! यूयमेतासां विज्ञानं सर्वेभ्यः संदत्त]
ओषधीविज्ञानं विद्वद्भ्यः संग्राह्यम् ।। ९३।।
Subject
कथं सन्तानोत्पत्तिः कार्य्येत्याह॥
Meaning of Anvay
हे विवाहित पुरुष ! याः सोमराज्ञीर्बृहस्पतिप्रसूता ओषधीः पृथिवीमनु विष्ठिताः सन्ति ताभ्योऽस्यै वीर्य्यं देहि। हे विद्वांसः! यूयमेतासां विज्ञानं सर्वेभ्यः संदत्त।। ९३।।

सपदार्थान्वयः -- हे विवाहित पुरुष ! याः सोमराज्ञीः सोमप्रमुखा बृहस्पतिप्रसूताः बृहतः कारणस्य पालकस्येश्वरस्य निर्माणादुत्पन्नाः ओषधीः ओषध्यः पृथिवीमनु विष्ठिताः विशेषेण स्थिताः सन्ति, ताभ्योऽस्यै पत्न्यै वीर्यं देहि।
हे विद्वांसः ! यूयमेतासां विज्ञानं सर्वेभ्यः संदत्त।। १२। ९३।।

[हे विवाहित पुरुष! याः......ओषधीः पृथिवीमनु विष्ठिताः सन्ति, ताभ्योऽस्यै वीर्यं देहि]
Special
वरुणः। वैद्याः=स्पष्टम्। विराडार्ष्यनुष्टुप्। गान्धारः॥