Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 92

117 Mantra
12/92
Devata- वैद्या देवताः Rishi- वरुण ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
याऽओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः। तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ शꣳ हृ॒दे॥९२॥

या। ओष॑धीः। सोम॑राज्ञी॒रिति॒ सोम॑ऽराज्ञीः। ब॒ह्वीः। श॒तवि॑चक्षणा॒ इति॑ श॒तऽवि॑ऽचक्षणाः। तासा॑म्। अ॒सि॒। त्वम्। उ॒त्त॒मेत्यु॑त्ऽत॒मा। अर॑म्। कामा॑य। शम्। हृदे ॥९२ ॥

Mantra without Swara
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । तासामसि त्वमुत्तमारङ्कामाय शँ हृदे ॥

या। ओषधीः। सोमराज्ञीरिति सोमऽराज्ञीः। बह्वीः। शतविचक्षणा इति शतऽविऽचक्षणाः। तासाम्। असि। त्वम्। उत्तमेत्युत्ऽतमा। अरम्। कामाय। शम्। हृदे॥९२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(या:) (ओषधीः) (सोमराज्ञीः) सोमो राजा यासां ताः (बह्वीः) (शतविचक्षणा) शतमसंख्या विचक्षणा गुणा यासु ताः (तासाम्) (असि) (त्वम्) (उत्तमा) (अरम्) अलम् (कामाय) इच्छासिद्धये (शम्) कल्याणकारिणी (हृदे) हृदयाय।। ९२।।
Essence
स्त्रीभिरवश्यमोषधिविद्या ग्राह्या, नैतामन्तरा पूर्णं कामसुखं लब्धुं शक्यम्, रोगान्निवर्त्तयितुं च ।। १२। ९२।।
Subject
स्त्रीभिरवश्यमोषधिविद्या ग्राह्या इत्याह॥
Meaning of Anvay
हे स्त्रि ! यतस्त्वं याः शतविचक्षणा बह्वीः सोमराज्ञीरोषधीः सन्ति तासामुत्तमा विदुष्यसि तस्माच्छं हृदेऽरं कामाय भवितुमर्हसि।। ९२।।

सपदार्थान्वयः -- हे स्त्रि! यतस्त्वं याः शतविचक्षणाः शतमसंख्या विचक्षणा गुणा यासु ताः, बह्वीः सोमराज्ञीः सोमो राजा यासां ताः, ओषधीः सोमाद्याः सन्ति, तासामुत्तमा=विदुषी असि। तस्मात् शं कल्याणकारिणी हृदे हृदयाय अरम् अलं कामाय इच्छासिद्धये भवितुमर्हसि।।

[हे स्त्रि! यतस्त्वं याः......ओषधीः सन्ति तासामुत्तमा विदुष्यसि, तस्मात्.......अरं कामाय भवितुमर्हसि]
Meaning of Essence
कामाय=कामसुखाय।
Special
वरुणः। वैद्या:=स्पष्टम्। निचृदनुष्टुप्। गान्धारः॥