Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 90

117 Mantra
12/90
Devata- वैद्या देवताः Rishi- भिषगृषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
मु॒ञ्चन्तु॑ मा शप॒थ्यादथो॑ वरु॒ण्यादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शात् सर्व॑स्माद् देवकिल्वि॒षात्॥९०॥

मु॒ञ्चन्तु॑। मा॒। श॒प॒थ्या᳕त्। अथो॒ऽइत्यथो॑। व॒रु॒ण्या᳖त्। उ॒त। अथो॒ऽइत्यथो॑। य॒मस्य॑। पड्वी॑शात्। सर्व॑स्मात्। दे॒व॒कि॒ल्वि॒षादिति॑ देवऽकि॒ल्वि॒षात् ॥९० ॥

Mantra without Swara
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । अथो यमस्य पड्वीशात्सर्वस्माद्देवकिल्बिषात् ॥

मुञ्चन्तु। मा। शपथ्यात्। अथोऽइत्यथो। वरुण्यात्। उत। अथोऽइत्यथो। यमस्य। पड्वीशात्। सर्वस्मात्। देवकिल्विषादिति देवऽकिल्विषात्॥९०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मुञ्चन्तु ) पृथक्कुर्वन्तु (मा) माम् (शपथ्यात्) शपथे भवात् कर्मणः (अथो) (वरुण्यात्) वरुणेषु=वरेषु भवादपराधात् (उत) अपि (अथो) (यमस्य) न्यायाधीशस्य (पड्वीशात्) न्यायविरोधाचरणात् (सर्वस्मात्) (देवकिल्विषात्) देवेषु=विद्वत्स्वपराधकरणात्।। ९०।।
Essence
अत्र वाचकलुप्तोपमालंकारः॥ मनुष्यैः प्रमादकार्यौषधं विहायान्यद् भोक्तव्यम्।
[शपथात्, वरुण्यात्, यमस्य पड्वीशात्, देवकिल्विषान्मा मुञ्चन्तु]
न कदाचिच्छपथः कार्यः, श्रेष्ठापराधात्, न्यायविरोधात्, पापाचरणादविद्वदीर्ष्याविषयात् पृथग् भूत्वाऽऽनुकूल्येन वर्त्तितव्यमिति।। १२। ९०।।
Subject
किं किमौषधं कस्मात्कस्मान्मुञ्चतीत्याह॥
Meaning of Anvay
हे विद्वांसः ! भवन्तो यथौषधयो रोगात्पृथग्रक्षन्ति तथा शपथ्यादयो वरुण्यादयो यमस्य पड्वीशादुत सर्वस्माद्देवकिल्विषान्मा मुञ्चन्तु पृथग्रक्षन्तु तथा युष्मानपि रोगेभ्यो मुञ्चन्तु।। ९०।।

सपदार्थान्वयः -- हे विद्वांसः! भवन्तो यथौषधयो रोगात् पृथग् रक्षन्ति, तथा शपथ्यात् शपथे भवात् कर्मणः अथो वरुण्यात् वरुणेषु=वरेषु भवादपराधाद् अथो यमस्य न्यायाधीशस्य पड्वीशात् न्यायविरोधाऽऽचरणाद् उत अपि सर्वस्मात् देवकिल्विषात् देवेषु=विद्वत्स्वपराधकरणात् मा मां मुञ्चन्तु=पृथग् रक्षन्तु पृथक् कुर्वन्तु तथा युष्मानपि रोगेभ्यो मुञ्चन्तु पृथक् कुर्वन्तु ।। १२। ९०।।

[हे विद्वांसः! भवन्तो यथौषधयो रोगात्पृथग् रक्षन्ति तथा]
Meaning of Essence
वरुण्यात्=श्रेष्ठापराधात्। यमस्य=न्यायस्य। पड्वीशात्=विरोधात्। देवकिल्विषात् =पापाचरणाद् विद्वदीर्ष्याविषयात्।
Special
भिषक्। वैद्याः=स्पष्टम्। भुरिगुष्णिक्। ऋषभः।।