Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 89

117 Mantra
12/89
Devata- वैद्या देवताः Rishi- भिषगृषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
याः फ॒लिनी॒र्याऽअ॑फ॒लाऽअ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑। बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः॥८९॥

याः। फ॒लिनीः॑। याः। अ॒फ॒लाः अ॒पु॒ष्पाः। याः। च॒। पु॒ष्पिणीः॑। बृह॒स्पति॑प्रसूता॒ इति॒ बृह॒स्पति॑ऽप्रसूताः। ताः। नः॒। मु॒ञ्च॒न्तु। अꣳह॑सः ॥८९ ॥

Mantra without Swara
याः पलिनीर्याऽअपलाऽअपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वँहसः ॥

याः। फलिनीः। याः। अफलाः अपुष्पाः। याः। च। पुष्पिणीः। बृहस्पतिप्रसूता इति बृहस्पतिऽप्रसूताः। ताः। नः। मुञ्चन्तु। अꣳहसः॥८९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(याः) (फलिनीः) बहुफलाः (याः) (अफलाः) अविद्यमानफलाः (पुष्पाः) पुष्परहिताः (याः) (च) (पुष्पिणीः) बहुपुष्पाः (बृहस्पतिप्रसूताः) बृहतां पतिनेश्वरेणोत्पादिताः (ताः) (नः) अस्मान् (मुञ्चन्तु) मोचयन्तु (अंहसः) रोगजन्यदुःखात् ।। ८९।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। मनुष्यैर्या ईश्वरेण सर्वेषां प्राणिनां जीवनाय रोगनिवारणाय चौषधयो निर्मिताः, ताभ्यो वैद्यकशास्त्रोक्तोपयोगेन सर्वान् रोगान् हत्वा पापाचाराद् दूरे स्थित्वा धर्मे नित्यं प्रवर्त्तितव्यम्।।
Subject
रोगनिवारणार्था एवौषधय ईश्वरेण निर्मिता इत्याह॥
Meaning of Anvay
हे मनुष्याः! याः फलिनीर्या अफला या अपुष्पा याश्च पुष्पिणीर्बृहस्पतिप्रसूता ओषधयो नोंऽहसो यथा मुञ्चन्तु ता युष्मानपि मोचयन्तु ॥ ८९॥

सपदार्थान्वयः-- हे मनुष्याः ! याः फलिनीः बहुफलाः याः अफलाः अविद्यमानफलाः याः अपुष्पाः पुष्परहिताः याश्च पुष्पिणीः बहुपुष्पाः बृहस्पतिप्रसूताः बृहतां पतिनेश्वरेणोत्पादिताः ओषधयो नः अस्मान् अंहसः रोगजन्यदुःखाद् यथा मुञ्चन्तु मोचयन्तु, ता युष्मानपि मोचयन्तु ।। १२ । ८९॥
[हे मनुष्या ! याः........बृहस्पतिप्रसूता ओषधयो नोऽहंसो.......मुञ्चन्तु]
Meaning of Essence
:-- बृहस्पतिप्रसूताः=ईश्वरेण निर्मिताः। अंहसः=पापाचारात्॥
Special
भिषक्। वैद्याः=स्पष्टम्। विराडनुष्टुप्। गान्धारः॥