Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 87

117 Mantra
12/87
Devata- वैद्यो देवता Rishi- भिषगृषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
सा॒कं य॑क्ष्म॒ प्रप॑त॒ चाषे॑ण किकिदी॒विना॑। सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या॥८७॥

सा॒कम्। य॒क्ष्म॒। प्र। प॒त॒। चाषे॑ण। कि॒कि॒दी॒विना॑। सा॒कम्। वात॑स्य। ध्राज्या॑। सा॒कम्। न॒श्य॒। नि॒हाक॒येति॑ नि॒ऽहाक॑या ॥८७ ॥

Mantra without Swara
साकँयक्ष्म प्रपत चाषेण किकिदीविना । साकँवातस्य ध्राज्या साकन्नश्य निहाकया ॥

साकम्। यक्ष्म। प्र। पत। चाषेण। किकिदीविना। साकम्। वातस्य। ध्राज्या। साकम्। नश्य। निहाकयेति निऽहाकया॥८७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(साकम्) सह (यक्ष्म) राजरोग: (प्र) (पत) प्रपातय (चाषेण) भक्षणेन (किकिदीविना) किं किं ज्ञानं दीव्यति=ददाति यस्तेन। कि ज्ञान इत्यस्मादौणादिके सन्वति डौ कृते। किकिस्तदुपपदाद्दिवुधातोरौणादिकः किर्बाहुलकाद्दीर्घश्च (साकम्) (वातस्य) वायोः (ध्राज्या) गत्या (साकम्) (नश्य) नश्यत्। अत्र व्यत्ययः (निहाकया) नितरां हातुं योग्यया पीडया।। ८७।।
Essence
मनुष्यैरौषधसेवनप्राणायामव्यायामै रोगान् निहत्य सुखेन वर्त्तितव्यम्॥
Subject
कथं कथं रोगा निहन्तव्या इत्याह॥
Meaning of Anvay
हे चिकित्सक विद्वन्! किकिदीविना चाषेण साकं यक्ष्म प्रपत यथा तस्य वातस्य ध्राज्या साकमयं नश्य निहाकया साकं दूरीभवेत्तदर्थं प्रयतस्व।। ८७।।

सपदार्थान्वयः-- हे चिकित्सक विद्वन् ! किकिदीविना किं किं ज्ञानं दीव्यति=ददाति यस्तेन, चाषेण भक्षणेन साकं सह यक्ष्म राजरोगः प्र+पत प्रपातय, यथा तस्य वातस्य वायोः ध्राज्या गत्या साकं सह अयं नश्य नश्येत्, निहाकया नितरां हातुं योग्यया पीडया साकं सह दूरीभवेत्, तदर्थं प्रयतस्व।। १२ । ८७।।
[हे चिकित्सक विद्वन्!.......चाषेण साकं यक्ष्म प्रपत, वातस्य ध्राज्या साकमयं नश्य]
Meaning of Essence
चाषेण=औषधसेवनेन। वातस्य [ध्राज्या]=प्राणायामेन, व्यायामेन च॥
Special
भिषक्। वैद्याः=स्पष्टम्। विराडनुष्टुप्। गान्धारः।।