Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 86

117 Mantra
12/86
Devata- वैद्यो देवता Rishi- भिषगृषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ विबा॑धध्वऽउ॒ग्रो म॑ध्यम॒शीरि॑व॥८६॥

यस्य॑। ओष॑धीः। प्र॒सर्प॒थेति॑ प्र॒ऽसर्प॑थ। अङ्ग॑मङ्ग॒मित्यङ्ग॑म्ऽअङ्गम्। प॑रुष्परुः। परुः॑परु॒रिति॒ परुः॑ऽपरुः। ततः॑। यक्ष्म॑म्। वि। बा॒ध॒ध्वे॒। उ॒ग्रः। म॒ध्य॒म॒शीरि॒वेति॑ मध्यम॒शीःऽइ॑व ॥८६ ॥

Mantra without Swara
यस्यौषधीः प्रसर्पथाङ्गम्ङ्गम्परुष्परुः । ततो यक्ष्मँ वि बाधध्व उग्रो मध्यमशीरिव ॥

यस्य। ओषधीः। प्रसर्पथेति प्रऽसर्पथ। अङ्गमङ्गमित्यङ्गम्ऽअङ्गम्। परुष्परुः। परुःपरुरिति परुःऽपरुः। ततः। यक्ष्मम्। वि। बाधध्वे। उग्रः। मध्यमशीरिवेति मध्यमशीःऽइव॥८६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यस्य) (ओषधीः) (प्रसर्पथ) (अङ्गमङ्गम्) प्रत्यवयवम् (परुषपरुः) मर्ममर्म (ततः) (यक्ष्मम्) (वि) (बाधध्वे) (उग्रः) (मध्यमशीरिव) यो मध्यमानि मर्माणि शृणातीव ।। ८६।।
Essence
यदि शास्त्राऽनुसारेणौषधानि सेवेरँस्तर्ह्यङ्गादङ्गाद् रोगान् निःसार्याऽरोगिणो भवन्ति।। १२ । ८६।।
Subject
यथायोग्यं सेवितमौषधं रोगान्कथं नो नाशयेयुरित्याह॥
Meaning of Anvay
हे मनुष्याः ! यूयं यस्याङ्गमङ्गं परुष्परुः प्रतिवर्त्तमानं यक्ष्मं मध्यमशीरिव विबाधध्वे। ओषधीः प्रसर्पथ विजानीत तान्वयं सेवेमहि ।। ८६।।

सपदार्थान्वयः -- हे मनुष्याः यूयं यस्य अङ्गमङ्गं प्रत्यवयवं परुष्परुः मर्ममर्म प्रति वर्त्तमानं यक्ष्मम् [उग्रः] मध्यमशीरिव यो मध्यमानि मर्माणि शृणातीव वि+बाधध्वे, [ततः] ओषधीः सोमयवादीन् प्र+सर्पथ=विजानीत। तान् वयं सेवेमहि।। १२। ८६।।
[हे मनुष्याः! यूयं......अङ्गमङ्गं.......प्रति वर्त्तमानं यक्ष्मं [उग्रः] मध्यमशीरिव विबाधध्वे, ओषधीः प्रसर्पथ]
Special
भिषक्। वैद्यः=स्पष्टम्। निचृदनुष्टुप्। गान्धारः।।