Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 84

117 Mantra
12/84
Devata- वैद्या देवताः Rishi- भिषगृषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒नऽइ॑व व्र॒जम॑क्रमुः। ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो रपः॑॥८४॥

अति॑। विश्वाः॑। प॒रि॒ष्ठाः। प॒रि॒स्था इति॑ परि॒ऽस्थाः। स्ते॒नइ॒वेति॑ स्ते॒नःऽइ॑व। व्र॒जम्। अ॒क्र॒मुः॒। ओष॑धीः। प्र। अ॒चु॒च्य॒वुः। यत्। किम्। च॒। त॒न्वः᳖। रपः॑ ॥८४ ॥

Mantra without Swara
अति विश्वाः परिष्ठा स्तेनऽइव व्रजमक्रमुः । ओषधीः प्राचुच्यवुर्यत्किञ्च तन्वो रपः ॥

अति। विश्वाः। परिष्ठाः। परिस्था इति परिऽस्थाः। स्तेनइवेति स्तेनःऽइव। व्रजम्। अक्रमुः। ओषधीः। प्र। अचुच्यवुः। यत्। किम्। च। तन्वः। रपः॥८४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अति) (विश्वाः) सर्वाः (परिष्ठाः) सर्वतः स्थिताः (स्तेन इव) यथा चोरो भित्त्यादिकं तथा (व्रजम्) गोस्थानम् (अक्रमुः) क्राम्यन्ति (ओषधीः) सोमयवाद्याः (प्र) (अचुच्यवुः) च्यावयन्ति=नाशयन्ति (यत्) (किम्) (च) (तन्वः) (रपः) पापफलमिव रोगाख्यं दुःखम् ।। ८४।।
Essence
अत्रोपमालङ्कारः।। यथा चोरो गोस्वामिना धर्षितः सन्नभीरघोषमुल्लङ्घ्य पलायते, तथैव सदौषधैस्ताडिता रोगा नश्यन्ति।। १२। ८४।।
Subject
कथं रोगा निवर्त्तन्त इत्याह॥
Meaning of Anvay
हे मनुष्याः! यूयं याः परिष्ठा विश्वा ओषधीर्व्रजं स्तेन इवात्यक्रमुः। यत् किं च तन्वो रपस्तत्सर्वं प्रावुच्यवस्ता युक्त्योपयुञ्जीध्वम् ।। ८४।।

सपदार्थान्वयः -- हे मनुष्याः! यूयं याः परिष्ठाः सर्वतः स्थिताः विश्वाः सर्वाः ओषधीः सोमयवाद्याः व्रजं गोस्थानं स्तेन इव यथा चोरो भित्त्यादिकं तथा अति+अक्रमुः क्राम्यन्ति, यत् किं च तन्वो रपः पापफलमिव रोगाख्यं दुःखं तत्सर्वं प्र+प्रचुच्यवुः च्यावयन्ति=नाशयन्ति, ता युक्त्योपयुञ्जीध्वम्।। १२। ८४।।

[हे मनुष्या! यूयं या......ओषधीर्व्रजं स्तेन इवात्यक्रमुः........तन्वो रपः.......प्राचुच्यवुः]
Meaning of Essence
प्रत्यक्रमुः=उल्लङ्घ्य पलायन्ते।
Special
भिषक्। वैद्याः=स्पष्टम्। विराडनुष्टुप्। गान्धारः॥