Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 83

117 Mantra
12/83
Devata- वैद्या देवताः Rishi- भिषगृषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यꣳ स्थ॒ निष्कृ॑तीः। सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ॥८३॥

इष्कृ॑तिः। नाम॑। वः॒। मा॒ता। अथो॒ऽइत्यथो॑। यू॒यम्। स्थ॒। निष्कृ॑तीः। निष्कृ॑ती॒रिति॒ निःऽकृ॑तीः। सी॒राः। प॒त॒त्रिणीः॑। स्थ॒न॒। यत्। आ॒मय॑ति। निः। कृ॒थ॒ ॥८३ ॥

Mantra without Swara
इष्कृतिर्नाम वो माताथो यूयँ स्थ निष्कृतीः । सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥

इष्कृतिः। नाम। वः। माता। अथोऽइत्यथो। यूयम्। स्थ। निष्कृतीः। निष्कृतीरिति निःऽकृतीः। सीराः। पतत्रिणीः। स्थन। यत्। आमयति। निः। कृथ॥८३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इष्कृतिः) निष्कर्त्री (नाम) प्रसिद्धम् (वः) युष्माकम् (माता) जननीव (अथो) (यूयम्) (स्थ) भवत (निष्कृती:) प्रत्युपकारान् (सीराः) नदीः। सीरा इति नदीनाम ॥ निघं० १। १३॥ (पतत्रिणीः) पतितुं=गन्तुं शीलाः (स्थन) भवत (यत्) या क्रिया (आमयति) रोगयति (निः) नितराम् (कृथ) कुरुत। अत्र विकरणस्य लुक्।। ८३।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। हे मनुष्याः! यथा मातापितरौ युष्मान् सेवन्ते तथा यूयमप्येतान् सेवध्वम्।
[अथो यदामयति तान् निष्कृथ]
यद्यत्कर्म रोगाविष्करं भवति तत्तत् त्यजत, एवं सुसेविता ओषधयः प्राणिनो मातृवत्पोषयन्ति।। १२ । ८३॥
Subject
सुसेविता ओषधयः किं कुर्वन्तीत्याह॥
Meaning of Anvay
हे मनुष्याः ! यूयं या व इष्कृतिर्मातेवौषधिर्नाम वर्त्तते तस्याः सेवका इवौषधीः सेवितारः स्थ पतत्रिणी सीराः नद्य इव निष्कृतीः सम्पादयन्तः स्थनाथो यदाऽऽमयति तान्निष्कृथ ।। ८३।।
सपदार्थान्वय-- हे मनुष्याः ! यूयं या वः युष्माकम् इष्कृतिः निष्कर्त्री माता जननी इव ओषधिर्नाम प्रसिद्धं वर्त्तते, तस्याः सेवका इवौषधीः सेवितारः स्थ भवत, पतत्रिणीः पतितुं=गन्तुं शीलाः सीराः=नद्य इव निष्कृती: प्रत्युपकारान् सम्पादयन्तः स्थन भवत, अथो यत् या क्रिया आमयति रोगयति तां निः+कृथ नितरां कुरुत।। १२। ८३॥

[हे मनुष्याः! यूयं या व इष्कृतिर्मातेवौषधिः.......वर्तते तस्याः सेवका इवौषधीः सेवितारः स्थ]
Meaning of Essence
माता=मातापितरौ। यत्=यद्यत्कर्म। आमयति=रोगाविष्करं भवति। निष्कृथ=त्यजत ।
Special
भिषक्। वैद्याः=स्पष्टम्। निचृदनुष्टुप्। गान्धारः॥