Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 81

117 Mantra
12/81
Devata- वैद्यो देवता Rishi- भिषगृषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ॒श्वा॒व॒ती सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम्। आवि॑त्सि॒ सर्वा॒ऽओष॑धीर॒स्माऽअ॑रि॒ष्टता॑तये॥८१॥

अ॒श्वा॒व॒तीम्। अ॒श्वा॒व॒तीमित्य॑श्वऽव॒तीम्। सो॒मा॒व॒तीम्। सो॒म॒व॒तीमिति॑ सो॑मऽव॒तीम्। ऊ॒र्जय॑न्तीम्। उदो॑जस॒मित्युत्ऽओ॑जसम्। आ। अ॒वि॒त्सि॒। सर्वाः॑। ओष॑धीः। अ॒स्मै। अ॒रि॒ष्टता॑तय॒ इत्य॑रि॒ष्टऽता॑तये ॥८१ ॥

Mantra without Swara
अश्वावतीँ सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥

अश्वावतीम्। अश्वावतीमित्यश्वऽवतीम्। सोमावतीम्। सोमवतीमिति सोमऽवतीम्। ऊर्जयन्तीम्। उदोजसमित्युत्ऽओजसम्। आ। अवित्सि। सर्वाः। ओषधीः। अस्मै। अरिष्टतातय इत्यरिष्टऽतातये॥८१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अश्वावतीम्) प्रशस्तशुभगुणयुक्ताम्। अत्रोभयत्र मतौ दीर्घः (सोमावतीम्) बहुरससहिताम् (ऊर्जयन्तीम्) बलं प्रापयन्तीम् (उदोजसम्) उत्कृष्टं पराक्रमम् (आ) (अवित्सि) जानीयाम् (सर्वा:) अखिला: (ओषधीः) सोमयवाद्याः (अस्मै) (अरिष्टतातये) रिष्टानां=हिंसकानां रोगाणामभावाय।। ८१।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। मनुष्याणामादिममिदं कर्माऽस्ति यत्--रोगाणां निदानचिकित्सौषधपथ्यसेवनमोषधीनां गुणविज्ञानं यथावदुपयोजनं च,
[हेतुमाह--]
यतो रोगनिवृत्त्या निरन्तरं पुरुषार्थोन्नतिः स्यादिति।। १२। ८१॥
Subject
मनुष्यैः सदा पुरुषार्थ उन्नेय इत्याह॥
Meaning of Anvay
हे मनुष्याः! यथाऽहमरिष्टतातयेऽश्वावतीं सोमावतीमुदोजसमूर्जयन्तीं महौषधीमावित्स्यस्मै यूयमपि प्रयतध्वम्।। ८१।।

सपदार्थान्वयः-- हे मनुष्याः! यथाहम् अरिष्टतातये रिष्टानां=हिंसकानां रोगाणामभावाय अश्वावतीं प्रशस्तशुभगुणयुक्तां सोमावतीं बहुरससहिताम् उदोजसम् उत्कृष्टं पराक्रमम् ऊर्जयन्तीं बलं प्रापयन्तीं महौषधीं [सर्वाः] अखिला [ओषधीः] सोमयवाद्या आ+अवित्सि जानीयाम्, अस्मै यूयमपि प्रयतध्वम्।। १२। ८१।।

[हे मनुष्याः! अहमरिष्टतातये ... महौषधीमावित्सि]
Special
भिषक्। वैद्यः=स्पष्टम्। अनुष्टुप्। गान्धारः।।