Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 8

117 Mantra
12/8
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अग्ने॑ऽअङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ सह॒स्रं॑ तऽउपा॒वृतः॑। अधा॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमाकृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि॥८॥

अग्ने॑। अ॒ङ्गि॒रः॒। श॒तम्। ते॒। स॒न्तु॒। आ॒वृत॒ इत्या॒ऽवृ॑तः। स॒हस्र॑म्। ते॒। उ॒पा॒वृत॒ इत्यु॑पऽआ॒वृतः॑। अध॑। पोष॑स्य। पोषे॑ण। पुनः॑। नः॒। न॒ष्टम्। आ। कृ॒धि॒। पुनः॑। नः॒। र॒यिम्। आ। कृ॒धि॒ ॥८ ॥

Mantra without Swara
अग्नेऽअङ्गिरः शतन्ते सन्त्वावृतः सहस्रन्तऽउपावृतः । अधा पोषस्य पोषेण पुनर्ना नष्टमाकृधि पुनर्ना रयिमाकृधि ॥

अग्ने। अङ्गिरः। शतम्। ते। सन्तु। आवृत इत्याऽवृतः। सहस्रम्। ते। उपावृत इत्युपऽआवृतः। अध। पोषस्य। पोषेण। पुनः। नः। नष्टम्। आ। कृधि। पुनः। नः। रयिम्। आ। कृधि॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) पदार्थविद्यावित् (अङ्गिरः) विद्यारसयुक्त (शतम्) (ते) तव (सन्तु) (आवृतः) आवृत्तिरूपाः क्रियाः (सहस्रम्) (ते) (उपावृतः) ये भोगा उपावर्त्तन्ते (अध) अथ निपातस्य चेति दीर्घः (पोषस्य) पोषकस्य जनस्य (पोषेण) पालनेन (पुनः) (नः) अस्मभ्यम् (नष्टम्) अदृष्टं विज्ञानम् (आ) समन्तात् (कृधि) कुरु (पुनः) (नः) अस्मभ्यम् ( रयिम्) प्रशस्तां श्रियम् (आ) (कृधि) कुरु ॥ ८॥
Essence
मनुष्यैर्विद्यासु शतश आवृत्तीः कृत्वा शिल्पविद्यासु सहस्रमुपावृतींश्च,
[अधा......नष्टमपि पुनराकृधि, रयिं........पुनराकृधि]
गुप्तागुप्ता विद्याः प्रकाश्य, सर्वेषां श्रीसुखं जननीयम् ।। १२ । ८ ॥
Subject
पुनर्विद्याभ्यासमाह ॥
Meaning of Anvay
अन्वयः -- हे अग्नेऽङ्गिरो विद्वन्! यस्य पुरुषार्थिनस्ते तवाऽग्नेरिव शतमावृतः सहस्रं ते तवोपावृतः सन्तु। अध त्वमेतैः पोषस्य पोषेण नष्टमपि नः पुनराकृधि रयिं पुनराकृधि ।। ८।।
सपदार्थान्वयः -- हे अग्ने पदार्थविद्यावित्! अङ्गिरः=विद्वन् विद्यारसयुक्त! यस्य पुरुषार्थिनः ते=तव अग्नेरिव शतम् आवृतः आवृत्तिरूपाः क्रियाः सहस्रं ते=तव उपावृतः ये भोगा उपावर्त्तन्ते सन्तु।।
अध अथ त्वमेतैः पोषस्य पोषकस्य जनस्य पोषेण पालनेन नष्टम् अदृष्टं विज्ञानम् अपि नः अस्मभ्यं पुनः आ+कृधि समन्तात् कुरु, रयिं प्रशस्तां श्रियं [नः] अस्मभ्यं पुनः आ+कृधि कुरु ।। १२। ८।।
[हे अग्नेऽङ्गिरो विद्वन्......ते.......शतमावृतः सहस्रं ते..........उपावृतः सन्तु]
Meaning of Essence
शतम्=शतशः। नष्टम्=गुप्तागुप्ता विद्याः। रयिम्=श्रीसुखम्॥
Special
वत्सप्रीः । अग्निः=विद्वान् । आर्षीत्रिष्टुप् । निषादः ।।