Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 79

117 Mantra
12/79
Devata- वैद्यो देवता Rishi- भिषगृषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता। गो॒भाज॒ऽइत् किला॑सथ॒ यत् स॒नव॑थ॒ पूरु॑षम्॥७९॥

अ॒श्व॒त्थे। वः॒। नि॒षद॑नम्। नि॒सद॑न॒मिति॑ नि॒ऽसद॑नम्। प॒र्णे। वः॒। व॒स॒तिः। कृ॒ता। गो॒भाज॒ इति॑ गो॒ऽभाजः॑। इत्। किल॑। अ॒स॒थ॒। यत्। स॒नव॑थ। पूरु॑षम्। पुरु॑ष॒मिति॒ पुरु॑षम् ॥७९ ॥

Mantra without Swara
अश्वत्थे वो निषदनम्पर्णे वो वसतिष्कृता । गोभाजऽइत्किलासथ यत्सनवथ पूरुषम् ॥

अश्वत्थे। वः। निषदनम्। निसदनमिति निऽसदनम्। पर्णे। वः। वसतिः। कृता। गोभाज इति गोऽभाजः। इत्। किल। असथ। यत्। सनवथ। पूरुषम्। पुरुषमिति पुरुषम्॥७९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अश्वत्थे) श्वः स्थाता न स्थाता वा वर्त्तते तादृशे देहे (वः) युष्माकं जीवानाम् (निषदनम्) निवासः (पर्णे) चलिते पत्रे (वः) युष्माकम् (वसतिः) निवासः (कृता) (गोभाजः) ये गां=पृथिवीं भजन्ते ते (इत्) इह (किल) खलु (असथ) भवत (यत्) यतः (सनवथ) ओषधिदानेन सेवध्वम्। अत्र विकरणद्वयम् (पूरुषम्) अन्नादिना पूर्णं देहम्।। ७९।।
Essence
मनुष्यैरेवं भावनीयम्--अस्माकं शरीराण्यनित्यानि स्थितिश्चञ्चलाऽस्ति, तस्माच्छरीरमरोगिणं संरक्ष्य, धर्मार्थकाममोक्षाणामनुष्ठानं सद्यः कृत्वाऽनित्यैः साधनैर्नित्यं मोक्षसुखं खलु लब्धव्यम्।
[ओषधयः इव,......पूरुषं सनवथ]
यथौषधितृणादीनि पत्रपुष्पफलमूलस्कन्दशाखादिभिः शोभन्ते तथैव नीरोगाणि शोभमानानि भवन्ति ।। १२। ७९।।
Subject
मनुष्याः प्रत्यहं कीदृशं विचारं कुर्य्युरित्याह॥
Meaning of Anvay
हे मनुष्याः ! ओषधय इव यद्वोऽश्वत्थे निषदनं वः पर्णे वसतिः कृताऽस्ति तस्माद्गोभाजः किल पूरुषं सनवथ सुखिन इदसथ।। ७९।।
सपदार्थान्वयः -- हे मनुष्याः! ओषधय इव यत् यतः वः युष्माकं जीवानाम् अश्वत्थे श्वः स्थाता न स्थाता वा वर्त्तते तादृशे देहे निषदनं निवासः वः युष्माकं पर्णे चलिते पत्रे वसतिः निवासः कृताऽस्ति। तस्माद् गोभाजः ये गां=पृथिवीं भजन्ते ते किल खलु पूरुषम् अन्नादिना पूर्णं देहं सनवथ ओषधिदानेन सेवध्वम्, सुखिन इत् इह असथ भवथ।। १२। ७९।।

[हे मनुष्याः!.......वोऽश्वत्थे निषदनं वः पर्णे वसतिष्कृताऽस्ति]
Special
भिषक्ः। वैद्याः=स्पष्टम्। अनुष्टुप्। गान्धारः।।