Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 78

117 Mantra
12/78
Devata- चिकित्सुर्देवता Rishi- भिषगृषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे। स॒नेय॒मश्वं॒ गां वास॑ऽआ॒त्मानं॒ तव॑ पूरुष॥७८॥

ओष॑धीः। इति॑। मा॒त॒रः॒। तत्। वः॒। दे॒वीः॒। उप॑। ब्रु॒वे॒। स॒नेय॑म्। अश्व॑म्। गाम्। वासः॑। आ॒त्मान॑म्। तव॑। पू॒रु॒ष॒। पु॒रु॒षेति॑ पुरुष ॥७८ ॥

Mantra without Swara
ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे । सनेयमश्वङ्गाँवासऽआत्मानन्तव पूरुष ॥

ओषधीः। इति। मातरः। तत्। वः। देवीः। उप। ब्रुवे। सनेयम्। अश्वम्। गाम्। वासः। आत्मानम्। तव। पूरुष। पुरुषेति पुरुष॥७८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ओषधीः) (इति) इव (मातरः) जनन्यः (तत्) कर्म (वः) युष्मान् (देवीः) दिव्या विदुषी: (उप) समीपस्थः सन् (ब्रुवे) उपदिशेयम् (सनेयम्) संभजेयम् (अश्वम्) तुरङ्गादिकम् (गाम्) धेन्वादिकं पृथिव्यादिकं वा (वासः) वस्त्रादिकं निकेतनं वा (आत्मानम्) जीवम् (तव) (पूरुष) प्रयत्नशील।। ७८।।
Essence
अत्रोपमालङ्कारः॥ यथा यवादय ओषधयः सेविताः शरीराणि पुष्यन्ति तथैव जनन्यो विद्यासुशिक्षोपदेशेनाऽपत्यानि सुपोषयेयुः ।

[हे पुरुष! सुसन्तानाऽहं माता तवाश्वं गां वास आत्मानं च सततं सनेयम्]

यन्मातुरैश्वर्य्यं तद्दायोऽपत्यस्य यदपत्यस्यैतन्मातुरस्ति, एवं सर्वे सुप्रीत्या वर्त्तित्वा परस्परस्य सुखानि सततं वर्धयेयुः। १२। ७८।।
Subject
पुनः पित्रपत्यानि परस्परं कथं वर्त्तेरन्नित्याह॥
Meaning of Anvay
हे ओषधीरिति देवीर्मातरोऽहं तनयो वस्तत्पत्थ्यं वच उपब्रुवे। हे पूरुष! सुसन्तानाऽहं माता तवाश्वं गां वास आत्मानं च सततं सनेयम्।। ७८।।

सपदार्थान्वयः -- हे ओषधीरिति इव देवी:! दिव्या विदुषीः मातरः! जनन्यः! अहं तनयो वः युष्मान् तत् पथ्यं वचः कर्म उप+ब्रुवे समीपस्थः सन् उपदिशेयम्।
हे पूरुष! प्रयत्नशील सुसन्तान! अहं माता तवाश्वं तुरङ्गादिकं गां धेन्वादिकं पृथिव्यादिकं वा वासः वस्त्रादिकं निकेतनं वा आत्मानं जीवं च सततं सनेयं संभजेयम्।। १२। ७८।।

[हे ओषधीरिति देवीर्मातरः! अहं तनयो वस्तत्पथ्यं वच उप ब्रुवे]
Meaning of Essence
ओषधीः=यवादय ओषधयः।
Special
भिषक्। चिकित्सुः=स्पष्टम्। अनुष्टुप्। गान्धारः।।