Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 73

117 Mantra
12/73
Devata- अघ्न्या देवताः Rishi- कुमारहारित ऋषिः Chhand- भुरिगार्षी गायत्री Swara- षड्जः
Mantra with Swara
विमु॑च्यध्वमघ्न्या देवयाना॒ऽअग॑न्म॒ तम॑सस्पा॒रम॒स्य। ज्योति॑रापाम॥७३॥

वि। मु॒च्य॒ध्व॒म्। अ॒घ्न्याः॒। दे॒व॒या॒ना॒ इति॑ देवऽयानाः। अग॑न्म। तम॑सः। पा॒रम्। अ॒स्य। ज्योतिः॑। आ॒पा॒म॒ ॥७३ ॥

Mantra without Swara
विमुच्यध्वमघ्न्या देवयाना अगन्म तमसस्पारमस्य ज्योतिरापाम ॥

वि। मुच्यध्वम्। अघ्न्याः। देवयाना इति देवऽयानाः। अगन्म। तमसः। पारम्। अस्य। ज्योतिः। आपाम॥७३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वि) (मुच्यध्वम्) त्यजत (अघ्न्याः) हन्तुमयोग्या गाः (देवयानाः) याभिर्देवान्=दिव्यान् भोगान् प्राप्नुवन्ति ताः (अगन्म) गच्छेम (तमसः) रात्रेः (पारम्) (अस्य) सूर्य्यस्य (ज्योतिः) प्रकाशम् (आपाम) व्याप्नुयाम।। ७३।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। मनुष्या गवादीन् पशून् कदाचिन्न हन्युः, न घातयेयुश्च।
यथा सूर्योदयाद् रात्रिर्निवर्त्तते, तथा वैद्यकशास्त्ररीत्या पथ्यान्यन्नानि संसेव्य, रोगेभ्यो निवर्त्तन्ताम् ।। १२। ७३।।
Subject
मनुष्यैर्गवादिपशुवृद्धिं कृत्वा पयोघृतादीनि वर्द्धयित्वा नन्दितव्यमित्याह॥
Meaning of Anvay
हे मनुष्याः ! यथा यूयं अघ्न्या देवयानाः प्राप्य सुसंस्कृतान्यन्नानि भुक्त्वा रोगेभ्यो विमुच्यध्वं तथा वयमपि विमुच्येमहि। यथा यूयं तमसः पारं प्राप्नुत तथा वयमप्यगन्म। यथा यूयमस्य ज्योतिर्व्याप्नुत तथा वयमप्यापाम ।। ७३।।
सपदार्थान्वयः -- हे मनुष्याः ! यथा यूयम् अघ्न्या हन्तुमयोग्या गाः देवयानाः याभिर्देवान्=दिव्यान् भोगान् प्राप्नुवन्ति ताः, प्राप्य, सुसंस्कृतान्यन्नानि भुक्त्वा रोगेभ्यो वि+मुच्यध्वं त्यजत तथा वयमपि विमुच्येमहि।
यथा यूयं तमसः रात्रेः पारं प्राप्नुत तथा वयमपि अगन्म गच्छेम।
यथा यूयम् अस्य सूर्य्यस्य ज्योतिः प्रकाशं व्याप्नुत तथा वयमप्यापाम व्याप्नुयाम ।। १२। ७३।।
[हे मनुष्याः! .......यूयमघ्न्या.....प्राप्य सुसंस्कृतान्यन्नानि भुक्त्वा रोगेभ्यो विमुच्यध्वम्.....तमसः पारं प्राप्नुत]
Meaning of Essence
अघ्न्याः=गवादिपशवः ।
Special
कुमारहारितः। अघ्न्याः=गवादिपशवः। भुरिगार्षी गायत्री। षड्जः।।