Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 72

117 Mantra
12/72
Devata- मित्रादयो लिङ्गोक्ता देवताः Rishi- कुमारहारित ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च। इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ऽओष॑धीभ्यः॥७२॥

काम॑म्। का॒म॒दु॒घ॒ इति॑ कामऽदुघे। धु॒क्ष्व॒। मि॒त्राय॑। वरु॑णाय। च॒। इन्द्रा॑य। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। पू॒ष्णे। प्र॒जाभ्य॒ इति॑ प्र॒जाऽभ्यः॑। ओष॑धीभ्यः ॥७२ ॥

Mantra without Swara
कामङ्कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्यऽओषधीभ्यः ॥

कामम्। कामदुघ इति कामऽदुघे। धुक्ष्व। मित्राय। वरुणाय। च। इन्द्राय। अश्विभ्यामित्यश्विऽभ्याम्। पूष्णे। प्रजाभ्य इति प्रजाऽभ्यः। ओषधीभ्यः॥७२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कामम्) इच्छाम् (कामदुघे) इच्छापूरिके (धुक्ष्व) पिपूर्धि (मित्राय) सुहृदे (वरुणाय) उत्तमाय विदुषे (च) अतिथये (इन्द्राय) परमैश्वर्य्ययुक्ताय (अश्विभ्याम्) प्राणापानाभ्याम् (पूष्णे) पुष्टिकराय (प्रजाभ्यः) स्वसन्तानेभ्यः (ओषधीभ्यः) सोमयवादिभ्यः।। ७२।।
Essence
या स्त्री वा पुरुषः पाकं कुर्यात्, तां तं च पाकविद्यां सुशिक्ष्य, हृद्यान्यन्नानि निर्माय, संभोज्य सर्वान् रोगान् दूरीकुर्यात्।। १२। ७२।।
Subject
पाचिका स्त्री प्रयत्नेन सुसंस्कृतान्यन्नानि व्यञ्जनानि कुर्यादित्याह॥
Meaning of Anvay
हे कामदुघे पाचिके त्वं भूमिरिव सुसंस्कृतैरन्नैर्मित्राय, वरुणाय चेन्द्रायाश्विभ्यां पूष्णे प्रजाभ्यः ओषधीभ्यः कामं धुक्ष्व ।। ७२।।

सपदार्थान्वयः-- हे कामदुघे! =पाचिके इच्छापूरिके! त्वं भूमिरिव सुसंस्कृतैरन्नैः मित्राय सुहृदे वरुणाय उत्तमाय विदुषे च अतिथये इन्द्राय परमैश्वर्ययुक्ताय अश्विभ्यां प्राणाऽपानाभ्यां पूष्णे पुष्टिकराय प्रजाभ्यः स्वसन्तानेभ्यः ओषधीभ्यः सोमयवादिभ्यः कामम् इच्छां धुक्ष्व
पिपूर्द्धि ।। ११। ७२।।

[हे कामदुघे=पाचिके ! त्वं सुसंस्कृतैरन्नैः........कामं धुक्ष्व]
Special
कुमारहारितः। मित्रादयो लिङ्गोक्ताः=सुहृदादयः। आर्ची पङ्क्तिः। पञ्चमः।।